SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ ४ शतकम् ] संस्कृतगाथासप्तशती । १८२ मानसिक ध्यानमग्नतायां चक्षुरादीनां किञ्चिदालम्बनं विनैव बद्धावधानता प्रायो भवत्यनुरक्तवियुक्तानामिति अन्यमनस्क जनस्वभाववर्णनात्स्वभावोक्तिः । अनया च 'वचनानामुत्तरस्थाने सनिश्वसितेनानेन ते शून्यावधान हुंकारेण ज्ञातोऽस्माभिस्तेऽनुरागः । तत्कि - मिति मुधा तदपह्नवेनास्मान् प्रतापयसि । वयं त्वत्स्नेहेन त्वत्समानसंतापाः, तदस्मासु विश्वसिहि' इति वस्तु व्यज्यत इत्यलंकारेण वस्तुध्वनिः । कुपितां नायिकां प्रसादयितुं प्रेषिता काचित्प्रौढा दूती नायकमाह सम्भावं पुच्छन्ती बालअ रोआविआ तुअ पिआए । णत्थि व्विअ कअसवहं हासुम्मिस्सं भणन्तीए ॥ ५७ ॥ [ सद्भावं पृच्छन्ती बालक रोदिता तव प्रियया । नास्त्येव कृतशपथं हासोन्मिश्रं भणन्त्या ॥ ] सद्भावं पृच्छन्ती बालक तव रोदिता प्रियया । नास्त्येवेति सशपथं हासोन्मिश्रं भणन्त्या हि ॥ ५७ ॥ सद्भावं तस्यां तव स्नेहं पृच्छन्ती अहम्, सद्भावो नास्त्येवेति सशपथं सहासं च तदुत्तरे भणन्त्या तव प्रियया रोदितास्मीत्यर्थः । शपथं कृत्वा कथनेन स्नेहाभावे सत्यता, हास्येन च तद्गोपने प्रयासोऽभिव्यज्यते । तथा च तवापराधैस्तथा सा व्यथिता यथा तव निःस्नेहतामेव निश्चिनोति परं दाक्षिण्येन तां व्यथां कृत्रिमहासेन निह्नोतुं यतत इत्येतादृशं तस्या हृदयदुःखं मौग्ध्यं च दृष्ट्वा मे बलादश्रूण्यागतानीति भावः । तव प्रिययेत्यनेन 'सा तव प्रियेति त्वं प्रसेधयसि, तथापि तामेवं क्लेशयसि । अहो ते प्रीतिः' इत्युपालम्भो व्यज्यते । बालकेत्यामन्त्रणेन एवमनुगतामपि तां खेदस्त्वमुचितानभिज्ञ एवेति ध्वन्यते " ग्रामीणानामपि संकल्पमात्रादेव सात्त्विकभावाः प्रादुर्भवन्ति किं पुना रसिकानामिति निजमार्मिकतां ख्यापयितुं कश्चन नागरिकताभिमानी सहचरमाह- एत्थ मए रमिअव्वं तीअ समं चिन्तिऊण हिअएण । पामरकरसेओल्ला णिवअइ तुवरी वविज्जन्ती ॥ ५८ ॥ [ अत्र मया रन्तव्यं तया समं चिन्तयित्वा हृदयेन । पामरकरस्वेदार्द्रा निपतति तुवरी उच्यमाना ॥ ] अत्र मया रन्तव्यं तया सहेत्याकलय्य हृदयेन । कृषककरस्वेदार्द्रा निपतति तुवरी समुप्यमानेयम् ॥ ५८ ॥ अत्र अस्मिन्नाटक क्षेत्रे तया सह मया रन्तव्यमिति हृदयेनाकलय्य चिन्तयित्वा समुप्यमाना क्षेत्रभूमौ सम्यग्विकीर्यमाणा इयं तुवरी आढकी [ अरहर इति भाषायां प्रसिद्धा ] कृषककरयोः स्वेदेन आर्द्रा सती निपततीति योजना । तुवरीक्षेत्रस्य वसन्तेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy