SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ४ शतकम् ] संस्कृतगाथासप्तशती। १६७ हृदयं छिन्दन्तोपि रतिकराः, पूर्वोक्तक्लेशदायकाः सन्तोपि प्रियं प्रत्युत्कण्ठासंवर्द्धनेन रति पोषयन्तीति भावः । एवं च कामस्य वाणा बहुविकल्पा बहुप्रकाराः । कुसुममया अपि निशिता इत्यादिविरोधालंकारेण 'विरुद्धधर्माश्रयतया ते स्पष्टं बहुप्रकाराः' इति सूच्यते। तथा च 'तवावलोकेन भूयांसं परितापमहमनुभवामि, वितर मयि करुणादृशमिति' कामुकं प्रत्यभिव्यज्यते। काचन प्रोषितपतिका प्रियगुणस्मरणेनोत्कण्ठां विनोदयन्ती सखीमाह ईसं जणेन्ति दावेन्ति मम्महं विप्पि सहावेन्ति । विरहे ण देन्ति मरिउं अहो गुणा तस्स बहुमग्गा ॥२७॥ [ईष्यां जनयन्ति दीपयन्ति मन्मथं विप्रियं सायन्ति । विरहे न ददति मर्तुमहो गुणास्तस्य बहुमार्गाः ॥] जनयन्तीया मदनं प्रदीपयन्ति प्रसाहयन्त्यसुखम् । विरहे न ददति मर्तु हन्त गुणास्तख बहुमार्गाः ॥ २७ ॥ अन्या महिला अपि तं कामयन्त इति मनसि ईर्ष्यामुत्पादयन्ति । अनेन रमणीमो. हकः प्रियस्य सौन्दर्यातिशयो व्यज्यते । चन्द्रकलादिस्थानवेदित्वात्संगमे मदन प्रदीपयन्ति, काममनेघूत्तेजनामुत्पादयन्तीत्यर्थः । अनेन दयितस्य सुरतकलाकौशलमभिव्यज्यते। असुखम् अननुकूलमपि प्रसाहयन्ति बलात्सह्यं संपादयन्ति, अतिशयविप्रियकरणेपि मानं जनयितुमवकाशं न प्रददतीत्यर्थः। अनेन वल्लभस्यानुनयचातुर्य ध्वन्यते । विरहे मर्नु न ददति, समागमाशां जनयित्वा मरणायावकाशं न प्रयच्छन्तीत्यर्थः । अनेन प्रेयसो नैसर्गिकप्रेमभाजनत्वं ध्वन्यते। अत एव तस्य दयितस्य गुणा बहुमार्गा वहुप्रकाराः। एकेन प्रकारेण चेन्मनो न बध्येत तर्हि प्रकारान्तरेण ते मानसं वशयेयुरिति गुणानां वहुप्रकारशालित्वं सूच्यते । एवंविधगुणशालिनः प्रियतमस्य विप्रयोग इत्यात्मनो वेदनातिशयश्वरमं ध्वन्यते। "तस्य कामशरस्य गुणा बहुमार्गा इत्यर्थ इति कश्चित्" इति गङ्गाधरः। वायनकदानव्यपदेशेन प्रतिगृहं भ्रमन्ती त्वदर्शनलालसया भवद्गृहमपि प्रययौ सा। तत्रापि भवतोवलोकनं न तस्याः समघटतेति नायिकायाः प्रेमातिशयं सूचयन्ती दूती काचिदाह णीआई अज णिकिव पिणद्धणवरङ्गऑइ वराईए। घरपरिवाडीअ पहेणआई तुह दंसणासाए ॥२८॥ [नीतान्यद्य निष्कृप पिनद्धनवरङ्गकया वराक्या । गृहपरिपाट्या प्रहेणकानि तव दर्शनाशया ॥] नीतानि निबिडनिर्दय पिनद्धनवरङ्गया वराक्याद्य । गृहपरिपाट्या वायनकानि तवालोकलालसया ॥२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy