SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ संस्कृतगाथासप्तशती । [ अवमानितोऽपि न तथा दूयते सज्जनो विभवहीनः । प्रतिकर्तुमसमर्थो मान्यमानो यथा परेण ॥ ] अवमानितोपि सुजनो विभवविहीनोपि दूयते न तथा । अलमर्थः प्रतिकर्तुं यथा परैर्मान्यमानो हि ॥ २० ॥ ४ शतकम् ] धनादिवैभवरहितः सुजनस्तिरस्कृतोपि तथा न दूयते न व्यथते यथा प्रत्युपकारं कर्तुमसमर्थः, अन्यैर्जनैर्धनदानादिना संमान्यमानः सन् व्यथते । प्रत्युपकारं विना अन्यैः कृतेन संमानेन महतीं मनोव्यथामनुभवतीति भावः । तथा च नेयं त्वयि विरक्ता किन्तु भवदभिलाषसंपादनस्य नास्ति तस्या वश इति मनखितया भवदुपहारं स्वीकर्तुं संकुचतीति नायिकाया उदाराशयत्वं ध्वन्यते । अवमानित इत्यनेन त्वं यस्मिन्समये तां प्रति न तथानुरको भूस्तदापि नासीत्तस्यास्त्वां प्रति काचिदीष्येति ध्वन्यते । परैर्मान्यमानो दूयत इत्यनेन न सा भवदुपायनलालसा प्रणयातिशयं दर्शयति प्रत्युत स्वाभावि - कानुरागशालिनी सा तस्मादपत्रपत इति नायिकाया नैसर्गिकस्नेहोभिव्यज्यते । परैरिति बहुवचनेन अन्येपि बहव उपायनद्वारा तामनुकूलयितुं प्रभवेयुर्यदि सा उपाय नलोभिनी भवेत् परं सा त्वयि सत्यानुरागिणीति नायिकाया अनन्यलभ्योनुरागो ध्वन्यते । तथा च-एवमुन्नतमानसा सा त्वयि सुदृढमनुरज्यतीत्यहो ते सौभाग्यमिति नायकं प्रति प्रोत्साहनं ध्वन्यते । " कापि जाराभिमतसंपादनासमर्था तत्कृतोपहारं परिहरन्ती कोत्र दोष इति वदन्तीं दूतीमाह" इति गङ्गाधरटीका | . १६३ मयि विश्रब्धं प्रकाशय रहस्यमिति प्रोत्साहयन्ती दूती नायिकामन्यापदेशेनाहकलहन्तरे वि अविणिग्गआइँ हिअअम्मि जरमुवगआई । सुअणकआइँ रहस्साइँ डहइ आउक्स्खए अग्गी ॥ २१ ॥ [ कलहान्तरेऽप्यविनिर्गतानि हृदये जरामुपगतानि । सुजनश्रुतानि रहस्यानि दहत्यायुः क्षयेऽग्निः ॥ ] अविनिर्गतानि कलहान्तरेपि हृदये जरामुपेतानि । सुजनश्रुतानि दहनो दहति रहस्यानि चायुषः पूत ॥ २१ ॥ कलहान्तरेपि कलहमध्येपि अविनिर्गतानि मुखाद्वहिर निःसृतानि । हृदये जरामुपेतानि बहुकालं स्थितानि । सुजनेन श्रुतानि रहस्यानि गोप्यवृत्तानि आयुषः क्षये अग्निर्दहति, न पुनरन्यस्मिन्संक्रामन्तीति भावः । हृदये जरामुपेतानीत्यनेन सुजनः स्वयमपि न तानि पुनःस्मरणेनावर्तयति, किन्तु स्वयमेव तानि शनैः शनैर्मन्दीभूतानि भवन्तीति सौजन्यातिशयो ध्वन्यते । तथा च रोषमुपगतापि नाहं रहस्यं प्रकटयेयमिति विश्वस्यतां मयीति दूत्या स्वविश्वसनीयत्वं ध्वन्यते । वसन्तसमुद्भवेन समुज्जृम्भमाणां विरहवेदनामनुभवन्त्याः प्रोषितपतिकाया अवस्थां नायकसमीपगामिनं पान्थं प्रति सखी सवैदग्ध्यमाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy