SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ३ शतकम् ] संस्कृतगाथासप्तशती। ११३ क्षमेवापमन्यमानस्य अहो ते यौवनगर्व इत्युपालम्भोभिव्यज्यते । 'वयमसत्यः स्मः' इति बहुवचनेन 'एका तव जायैव सती तदन्या वयं सर्वा अपि या भर्तुरतिचारेणापराद्धास्ताः केवलं त्वत्कारणादेव । अहो धन्यस्त्वं यत्समस्तकामिनीनां त्वमेवावलम्बनम्' इत्याक्षेपो द्योत्यते । गङ्गाधरस्तु-"खभर्तरि विरागं सूचयन्ती कमप्यसती सतीं निजभायाँ बहु मन्यमानं युवानं सवैदग्ध्यानुरागमाह-" इत्यवतरणं कुर्वन्निदं प्रणयवचनमेवाह । कस्मिन्नपि प्रणयातिशयं प्रकटयन्ती काचिदूतीमाह सवस्सम्मि वि दद्धे तहवि हु हिअअस्स णिव्वुदि चेअ । जं तेण गामडाहे हत्थाहत्थि कुडो गहिओ ॥ २९॥ [ सर्वस्वेऽपि दग्धे तथापि खलु हृदयस्य निर्वृतिरेव । यत्तेन ग्रामदाहे हस्ताहस्तिकया कुटो गृहीतः ॥] सर्वस्वेपि च दग्धे निर्वृतिरेव हि तथापि हृदयस्य । हस्ताहस्तिकया यत्तेन गृहीतो घटो वसतिदाहे ॥२९॥ निर्वृतिरनुपमसुखम् । वसतिदाहे ग्रामदाहे यत्तेन मत्प्रेमपात्रेण हस्ताहस्तिकया मम हस्तान्निजहस्तेन घटो गृहीतः एतावन्मात्रेणापि ममालौकिकं सुखमित्यर्थः । तत्करस्पर्शस्य कृते सर्वखनाशमपि न किञ्चिद्गुणयन्त्या मे कियांस्तस्मिन्ननुराग इति त्वमेवानुमिनुहीति दूती सूचयन्त्या-निजप्रणयो ध्वनितः । हर्षाख्यः संचारी द्योत्यत इति सरस्वतीकण्ठाभरणम् । गुरुजनसविधे गृहकर्मव्यापृता काचिदसती दूतीसमानीतकामुकसमागमवृत्तमाकर्ण्य तत्रासमर्थतामन्यापदेशेनाह-- जाएज वणुद्देसे कुजो वि हु णीसहो झडिअपत्तो। मा माणुसम्मि लोए ताई रसिओ दरिदो अ ॥ ३०॥ [जायतां वनोद्देशे कुब्जोऽपि खलु निःशाखः शिथिलपत्रः । मा मानुषे लोके त्यागी रसिको दरिद्रश्च ॥] कुब्जोपि जायतां किल निःशाखो गलितपल्लवो विपिने। मा मानुषे तु लोके त्यागी रसिको दरिद्रश्च ॥ ३०॥ वनोद्देशे पत्रशाखारहितः कुब्जो मध्यकुटिलो लघुवृक्षक एव कामं जायताम् , परं त्यागी दानशीलः, रसिकः सानुरागः शृङ्गारी च जनो दरिद्रो निर्धनः अवसररहितश्च लोके मा जायतामित्यर्थः । वने कदाचिदेवावश्यकतायां कुब्जवृक्षः काष्ठादिद्वारा निजोपयोगं समुन्नयेत्, परं जनसमाजे प्रतिक्षणव्यवहारापेक्षायां त्यागिनो रसिकजनस्य दरिद्रावस्थायां को वा जीवनोपयोग-इत्याकूतम् । तथा च तं प्रति सानुरागाया अपि अवसरदरिद्राया मे तदसमागमनिमित्तं महदुःखमिति दूतीं प्रत्यभिव्यज्यते । 'जाएज' इत्यस्य जायतामिति छाया गङ्गाधरानुरोधेन । वस्तुतो 'जायेय' इत्येवोचिता प्रतीयते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy