SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ २ शतकम् ] संस्कृतगाथासप्तशती । आश्वासनीयतया वात्सल्यपात्रतया वा अयि पुत्रीतुल्ये ! शकुनच्छलेन मया प्रस्थानकलशमुखे स्थापितः । वसन्तकालोद्भिन्नप्रथममञ्जरीसहितः अयम् अभिनवरसाल किसलयः प्रियस्य प्रस्थानं हर्ता हरिष्यति, अत एव मा रोदीरित्यर्थः । वसन्तागमनलक्षणं विलोक्य रसिकः प्रियः स्वयमेव गमनं परिहरिष्यतीति भावः । 'हर्ता' इति अनद्यतनभविष्यत्कालवाचकेन लुटा 'अद्य न चेत्तर्हि श्वः अवश्यं विरहदुःखभावनया वसन्ते प्रस्थानं परिहरिष्यति' इति सूच्यते । मूले 'पत्त्थाणकलसमुहसंठिओ गमणम्' इति पदद्वयं क्रियायाः सुदूरं स्थितम् मत्कृतच्छायायां तु न तादृशः क्लेशः । 'सखीभिर्दृढमानाय भृशं प्रतिबोधितापि किमिति विनैवानुनयं मानममुचः' इति पृष्टा काचिचतुरा सपरिहासमाह - जो कहँ वि मह सहीहिं छिद्दं लहिऊण पेसिओ हिअए । सो माणो चोरिअका मुअ व दिट्ठे पिए णट्टो ॥ ४४ ॥ [ यः कथमपि मम सखीभिरिछद्रं लब्ध्वा प्रवेशितो हृदये । मानोरकामुक इव दृष्टे प्रिये नष्टः ॥ ] कथमपि सखीभिरिह यरिछद्रं लब्ध्वा प्रवेशितो हृदि मे । दृष्टे प्रेयसि नष्टः स हि मानश्चौरकामीव ॥ ४४ ॥ , प्रणयकलहरूपं छिद्रम् अवसरं लब्ध्वा यो मानः सखीभिर्मम हृदये बलात्संचारितः न तु मया स्वीकृत इति भावः । स मानचौर्येणागतो जार इव प्रिये दृष्टे सति नष्टः पलायितः । प्रियदर्शनाभावदशायामेव मानो हृदयेऽवकाशं लभते सति तु प्रियदर्शने स स्वत एवापसरतीति कुत्रानुनयावसरः इति प्रियेऽनुरागातिशयः सूचितः । ' अनुनयार्थ. मागतं कान्तं दृष्ट्वा कलहान्तरितात्मनोनुरागं सूचयन्त्याह' इति गङ्गाधरावतरणम् । अनुनयात्पूर्वमेव मानपलायने कथं कलहान्तरितात्वमिति विचारणीयमेव । कुसुम्भावचयव्याजेन गतायाः सपत्न्याः शीलखण्डनं जातमिति सूचयितुं काचित्सपत्नी सोत्प्रासमाह - सहिआहिं भण्णमाणा थणए लग्गं कुसुम्भपुष्पं चि । मुद्धबहुआ हसिज पप्फोडन्ती हवआई || ४५ ॥ [ सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति । मुग्धवधूर्हस्ते प्रस्फोटयन्ती नखपदानि ॥ ] आलीभिरुच्यमाना स्तने विलग्नं कुसुम्भपुष्पमिति । नखरपदान्यपनुदती मुग्धवधूर्हस्यते नाम ॥ ४५ ॥ कामशास्त्रचतुरेण नायकेन स्तनकुड्मलाग्रे निहितं 'शशलुतम्' दृष्ट्वा स्तने कुसुम्भपुष्पं लग्नमिति आलीभिरुच्यमाना मुग्धवधूः नखपदानि अपनुदती अपनयन्ती हस्यते । मुग्धवधूरिति सोलुण्ठनमुपालम्भवचनम् । 'ईदृशी सेयं मुग्धा या किल प्रियदत्तं नखक्षतमपि• Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy