SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ २ शतकम् ] संस्कृतगाथासप्तशतीं [ नववधूप्रेमतनूकृतः प्रणयं प्रथमगृहिण्या रक्षन् । तनूकृतदुराकर्षमपि नयत्यरण्यं धनुर्व्याधः ॥ ] व्याधोऽभिनववधूरतितनूकृतः प्रथमगेहिनी प्रणयम् । रक्षन् नयत्यरण्यं तनितदुराकर्षमपि च धनुः ॥ २२ ॥ नववध्वाः सुरतेन दुर्बलीकृतः । गृहगतायाः पत्न्याः प्रेममात्रेण तनुता स्फुटं न प्रसिध्यतीति उभयार्थवाहि 'रति' पदमुपात्तं छायायामिति बोध्यम् । प्रथमगेहिन्याः प्रणयं रक्षन् व्याधः । अवतक्षणादिना तनूकृतं तनितम् [ तत्करोति तदाचष्टे इति ण्यन्तात् क्तः ] तथापि दुराकर्षं धनुररण्यं नयतीत्यर्थः । 'सुचिरविरहोत्तरमपि, अभिनवयौवनामपि वधूमुपलभ्य वनेचरोऽपि व्याधः पूर्वप्रियतमाप्रणयं न विस्मरति, प्रत्युत तत्प्रणयरक्षा तदभिज्ञानभूतं दुराकर्षमपि धनुः सुलभसंकटे गहने नयति । त्वं तु सततमनुरक्तामपि सहजमिमां कथं विस्मरसि' इति नायकं प्रति ध्वनयति । पूर्वप्रियाप्रेमानुवृत्तिशिक्षार्थं सहचरं प्रति नागरिकस्योक्तिरिति गङ्गाधरावतरणम् । पत्युर्नववधूवशीभूतत्वेन प्रथमगृहिण्याः साध्यत्वं सूचयितुं जारं प्रति दूत्या उक्तिरियमिति कश्चित् । सुभगां प्रति केनचित्कारणेन प्रकुप्य तया सह पुनः संगम सप्रतिज्ञावचनं मुहुर्मुहुः प्रत्याचक्षाणस्य वल्लभस्य तदिदं प्रत्याख्यानमस्थिरत्वादुपहासजनकमेवेति काचन सपत्नी सोत्प्रासमुपवर्णयति साविओ जो सामलीअ पढमं पसूअमाणाए । वल्लहवाएण अलं मम त्ति बहुसो भणन्ती ॥ २३ ॥ [ हासितो जनः श्यामया प्रथमं प्रसूयमानया । वल्लभवादेनालं ममेति बहुशो भणन्त्या ॥ ] प्रथमं प्रसूयमाना हासयति श्यामला जनानखिलान् । वल्लभवादेनालं ममेति बहुशो भणन्त्येव ॥ २३ ॥ श्यामला परिभाषितरूपसौन्दर्यशालिनी वरस्त्री । वल्लभसमागमेनैव प्रसवदुः खोपलम्भात् वल्लभवादेन प्रियतमस्य वर्णनेन । वल्लभस्य नामग्रहणेनापि मम अलम्, नास्ति प्रयोजनमिति बहुशः कथयन्त्येव अखिलान् जनान्हासयति, पुनः प्रियतमसमागमादेतस्य वचनस्य स्फुटमेव हासहेतुत्वात् । सहजसुकुमाराङ्गी श्यामा प्रथमप्रसववेदनाकुलतया यथा तत्कालं प्रियसमागमं प्रत्याख्याति तथा तवापि वचनमिदमिति भावः । मूले कर्मवाच्यस्यापि इह कर्तृवाच्यत्वं बन्धानुकूल्येन सारल्येन च । आगमने विलम्बेन प्रेम्णः कृत्रिमतामाशङ्कय प्रियतमनिमित्तमुत्ताम्यन्ती प्रोषितभर्तृका निजाश्वासनपरां मातुलानीं सनिर्वेदमाह कैअवरहिअं पेम्मं णत्थि बिअ मामि माणुसे लोए । अह हो कस्स विरहो विरहे होतम्मि को जिअ ॥ २४ ॥ सं. गा. ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy