SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ५६ काव्यमाला । मन्ये केन विमर्दितमनोरथेन प्रवास इति लपितम् । येनाङ्गानि हि वध्वाः सविषाणीवालसायन्ते ॥ ११ ॥ मन्ये, भन्नमनोरथेन हताशेनेति यावत् । केनचित्प्रवासो विदेशगमनमिति लपितम् । अत्र केनेति केनचिदित्यर्थे । येन कारणेन दत्तविषाणीव वध्वा अङ्गानि अलसायन्ते । एवं च 'जारप्रवासकथाद्य विषमिव तेऽप्रियाऽभवत् येनावश्यकानि गृहकार्याण्यपि कर्तुं न प्रभवसि । अहो ते उच्छृङ्खलत्वम् । इतीर्योपालम्भौ सपत्नीं प्रत्यभिव्यज्यते । यद्वा पतिप्रवासवार्ताश्रवणेन विमनस्कायाः प्रोष्यत्पतिकायाः प्रियतमेऽनुरागातिशयं प्रकाशयन्ती दूती नेयं प्राप्तुं शक्येति जारं प्रति तस्या असाध्यतां सूचयति । 'गृहकृत्य पराङ्मुखीं वधूं प्रति श्वश्रूरुपालम्भच्छलेनाह' इति गङ्गाधराऽवतरणम् । 'चतुराः स्फुटीभवन्तमपि भावमिङ्गिताकार गोपने नाच्छादयन्ति' इति शिक्षयन्ती काचिद् गोपीगतं वैदग्ध्यं स्वसखीं प्रत्याह ----- अजवि बालो दामोअरो त्ति इअ जम्पिए जसोआए । कहमुहपेसिअच्छं णिहुअं हसिअं वअवहूहिं ॥ १२ ॥ [ अद्यापि बालो दामोदर इति इति जल्पिते यशोदया । कृष्णमुखप्रेषिताक्षं निभृतं हसितं व्रजवधूभिः ॥ ] गदिते यशोदयेति हि बालो दामोदरोऽद्यापि । कृष्णमुखनिहितनयनं निभृतं हसितं व्रजवधूभिः ॥ १२ ॥ दामोदरः अद्यापि वाल इति यशोदया जल्पिते सति । दामोदरपदेन 'दुग्धभाण्डादिभङ्गे यथा पूर्वं दाम्ना अवध्यत तादृशमेवाऽधुनापि मन्ये' इति पूर्वकथा द्योत्यते । व्रजवधूभिरनुभूततरुणातिशायि कृष्णप्रौढ भावाभिः निभृतं यथा रहस्याभिज्ञमन्तराऽन्यो न जानाति तथा हसितम् । 'कृष्णमुखनिहितनयनम्' इत्यनेन कृष्णेन सह नानाविधविलासानुभवो व्रजवधूभिः प्रकाश्यते । यः किल तथाविधनानासुरतविमर्दपाटूपटः सोपि बाल इत्युदीर्यत इति हासहेतुत्वेपि सोयं हासो वैदग्ध्यान्नाभिव्यञ्जित इति विदग्धचर्या प्रकाइयत इति भावः । वधूभिरिति बहुवचनेन बहुत्र प्रकाशितासाधारणप्रौढितया कृष्णे सुरतवैदग्ध्यातिशयः प्रकाश्यते । साकाङ्क्षः अवसरात्मकः सोऽयं पर्यायालङ्कार इति सरस्वती - कण्ठाभरणम् ( ४ परि. ८० श्लो. ) । कापि निपुणा सुजनप्रशंसाच्छलेन चिरकालमप्यमन्दप्रणयरक्षार्थं नायकमुपच्छन्दयतिते विरला सप्पुरिसा जाण सिणेहो अहिष्णमुहराओ । अणुदिअहवडूमाणो रिणं व पुत्तेसु संकमइ ॥ १३ ॥ [ ते विरलाः सत्पुरुषा येषां स्नेहोऽभिन्नमुखरागः । अनुदिवसवर्धमान ऋणमिव पुत्रेषु संक्रामति ॥ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy