SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १ शतकम् ] संस्कृतगाथासप्तशती। [ हृदयज्ञैः सममसमाप्तान्यपि यथा सुखयन्ति । कार्याणि मन्ये न तथा इतरैः समापितान्यपि ॥] असमाप्तान्यपि हृदयाभिज्ञैः साकं यथा हि सुखयन्ति । कार्याणि नेतरैः सह समापितान्यपि तथा मन्ये ॥ ६१ ॥ हृदयाभिज्ञैः हृदयेच्छां विजानद्भिः इङ्गितज्ञैः सह असमाप्तान्यपि यथाचिन्तितमपूरितान्यपि कार्याणि यथा सुखयन्ति तथा इतरैः हृदयमजानद्भिः सह पूरितान्यपि न सुखयन्तीति मन्ये । तथा च त्वद्विधविदग्धेन सह यदि संकल्पेपि समागमो भवेत्सोऽपि सुखाय, न पुनर्जडेन कामं समागमोपीति सूच्यते। अथवा निजभर्तुः पामरताप्रकाशनेन पतिविषयको विरागो जारे चानुरागोनेन ध्वन्यते । किं वा अधमेऽनुरक्तां प्रति प्रबोधयन्त्याः सख्या वचनम् । संनिहितो धनागम इत्याम्राङ्कुरप्रदर्शनच्छलेन निभृतं सूचयन्ती कान्ता कान्तस्य प्रवासोद्यममपनेतुमाह दरफुडिअसिप्पिसंपुडणिलुक्कहालाहलग्गछेप्पणिहम् । पक्कम्बढिविणिग्गअकोमलमम्बङ्कुरं उअह ॥ ६२॥ [ईषत्स्फुटितशुक्तिसंपुटनिलीनहालाहलामपुच्छनिभम् । पक्काम्रास्थिविनिर्गतकोमलमाम्राङ्कुरं पश्यत ॥] दरभिन्नशुक्तिसंपुटनिलीनहालाहलारपुच्छनिभम् । पक्काऽऽम्रास्थिविनिर्गतकोमलमाम्राङ्करं पश्य ॥ ६२ ॥ दरमिन्ने ईषत्स्फुटिते शुक्तिसंपुटे निलीनः गुप्तः, ईषदृश्यमान इत्यर्थः । यो हालाहलः 'वहमनिया' इति प्रसिद्धो जन्तुविशेषः तस्य पुच्छाग्रसदृशम् । पक्काम्रस्य यदस्थि ततो विनिर्गतं च कोमलं च । 'हालाहलो ब्रह्मसर्प' इति मेदिनी । बीजकोषनिर्गतस्य आम्राकुरस्य वर्णाकारौ हालाहलपुच्छसंवादिनाविति संघटितयाऽनयाऽऽर्युपमया-'यदि संनिहितघनरसमये समयेऽस्मिन्प्रवससि तर्हि सोयमाम्राङ्कुरो हालाहल इव मां कथावशेषां कुर्यादिति' सौष्ठवेन ध्वन्यते । निरपायसुचिरसुरतयोग्यता प्रदर्शयितुं गृहस्य जनसंचारशून्यतां सूचयन्ती, चिररमणाय जारमन्यमनस्कं वा कुर्वती काचिदाह उअह पडलन्तरोइण्णणिअअतन्तुद्धपाअपडिलग्गम् । दुल्लक्खसुत्तगुत्थेकबउलकुसुमं व मकडअम् ॥ ६३ ॥ [पश्यत पटलान्तरावतीर्णनिजकतन्दूर्ध्वपादप्रतिलग्नम् । दुर्लक्ष्यसूत्रग्रथितैकबकुलकुसुममिव मर्कटकम् ॥] १ 'बिल बामणी' इति जयपुरप्रान्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy