SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १ शतकम् ] संस्कृतगाथासप्तशती। वशीभूतः' इति अन्यमहिलाः प्रत्यात्मनः सौभाग्यं ध्वन्यते । यद्वा पत्युरन्यासङ्गप्रार्थनेन, अवकाशमिच्छन्त्या जारं प्रति प्रच्छन्नरताभिलाषः सूच्यत इति कश्चित् । अह. ङ्कारर्द्धिः ( अत्यहङ्कारा ) सेयमुद्धता नायिकेति स. कण्ठाभरणे भोजः (५ परि.)॥ स्वयंदूती पथिकमाह थोअंपि ण णीसरई मज्झण्णे उह सरीरतललुका । आअवभएण छाई वि पहिअ ता किं ण वीसमसि ॥ ४९ ॥ [स्तोकमपि न निःसरति मध्याह्ने पश्य शरीरतललीना। आतपभयेन च्छायापि पथिक तत्किं न विश्राम्यसि ॥1 स्तोकमपि निःसरति नो मध्याह्ने पश्य गात्रतललीना। छायाप्यातपभयतो विश्राम्यसि किं न तत्पथिक ॥ ४२ ॥ आतपखिन्नाः पथिका यस्यां छायायां विश्राम्यन्ति सा अचेतना छायाप्यातपभयेन बहिर्न निष्क्राम्यति किं पुनश्चेतन इत्युत्प्रेक्षया मध्याह्ने न कोपि बहिनिःसरति, तथा च विविक्तनिरपायेऽस्मिन्सुखसमये छायामिव मां गात्रतललीनां कुर्विति प्रच्छन्नं रताभिलाषो व्यज्यते ॥ विरहोत्कण्ठिता चिरकालानन्तरमागतं कान्तमुपालभमाना ज्वरश्लाघाच्छलेन सचातुर्यमाह सुहउच्छअंजणं दुल्लहं वि दूराहि अम्ह आणन्त । उअआरअ जर जी पिणेन्त ण कआवराहोसि ॥ ५० ॥ [सुखपृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन् । उपकारक ज्वर जीवमपि नयन्न कृतापराधोऽसि ॥] सुखपृच्छकं सुदुर्लभजनमप्यस्माकमानयन् दूरात् । उपकारक जीवितमपि नयन् नहि ज्वर कृतापराधोसि ॥५०॥ सुखपृच्छकं अखस्थदशायां सुखं पृच्छति तादृशम् । तथा च लोकव्यवहारादागतो भवान् न स्नेहादित्युपालम्भो ध्वन्यते । अस्माकं नितरां दुर्लभं जनमपि दूरादानयन् । अतएव दुर्लभप्रियाऽऽनयनकरत्वादुपकारक हे ज्वर, जीवितमपि नयन न कृतापराधोसि । सुदुर्लभ इत्यनेन 'तुभ्यं समर्पितहृदया वयं ते सुलभास्त्वं तु अस्माकमतिदुर्लभः' इत्याक्षेपो द्योत्यते । दूरात् इति विपरीतलक्षणया समीपवासी अपि न दर्शनावसर ददासीत्युपालम्भसूचना वा । 'अस्माकं सुदुर्लभम्' इत्यनेन 'भवानस्मदर्थमेव निष्ठरहृदयः, अन्यासु ते निर्बाधा प्रीतिः' इत्युपालम्भो व्यज्यते । एवं चैतावत्कालं त्वदर्शना भिलाषेणैव दुःखं सोढमिदानीं तु त्वद्दर्शनोपकारो ज्वरेण साधित इत्येवं निःस्नेहे त्वयि सं. गा. ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001858
Book TitleGathasaptashati
Original Sutra AuthorN/A
AuthorNathuram Shastri
PublisherPandurang Javji
Publication Year1993
Total Pages446
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Literature, & Kavya
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy