SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ श्री पिण्डवाडासङ्घ -सत्कार्याणि । टीकाकृत्प्रशस्तिः [ ६५ भक्त्या वेगावेदिन्या पद्धत्या सङ्घाग्रणीभिः स्वहस्तेन साधर्मिक वात्सल्यादिलक्षणानां जेमनवाराणां प्रवर्तनम् भानुकवालमुग्धजन प्रबोधन हेतू नामार्द्रकुमारप्रतिबोध - इलाची कुमारकेवलज्ञान - मेघरथनृपकृतजीवरक्षण - त्रिशलादेवी स्वप्नदर्शन - श्री वीरविभु केवलज्ञान- धरणेन्द्र पद्मावतीकृत श्रीपार्श्वजिनभक्तिप्रमुखानां नानाविधप्रसङ्गानां चलाऽचलपुत्तलिका- चित्रादिना विश्वनम् समग्र जिन प्रतिमादीनां बहुमूल्याङ्गरचनाविस्तारणम्, तदाग्रेऽनेकविधाऽशनद्रव्य-फलादिढौकनपूर्वकं बहुविववाजिन्त्र वररवयुतप्रभुगीतगानादिना सह भावपूजादीनां निर्वर्तनम् दीनानाथ प्रमुखजनानामाहारादिप्रदानेन संतोषणम्, सर्वदिगमारिप्रवर्तनम्, अनेकविधवर्धापनादिना देवद्रव्यादीनां वृद्धिकरणमित्यादिलक्षणेन त्रयोदशाह्निकेन महता महेन वैराग्यवारिधिपूज्याचार्यदेव श्रीमद्विजययशोदेवसू रिवर-पंन्यासप्रवरश्रीमान विजयगणीन्द्र- पंन्यास श्रीकान्तिविजयगणिवर-पंन्यास श्रीभद्रंकर विजयगणिवर पंन्यास श्री चिदानंद विजयगणिवर-पंन्यासश्रीमलयविजयगणिवर-पंन्यासश्रीहेमन्त विजयगणिवर-पंन्यास श्रीमुक्ति विजयगणिवर--पंन्यास श्रीत्रिलोचनविजयगणिवर---पंन्यास श्रीहिमांशुविजयगणिवर --पंन्यासश्रीभानुविजय-गणिवर-पंन्यासश्रीपद्मविजयगणिवर प्रमुखाऽनल्पगुणगरीष्ठस्थविरबालवृद्धशतातीत शिष्य-प्रशिष्यमुनिवृन्दपरिवृतैर्व्यायाम्भोनिधिश्रीमद्विजयानन्द सूरीश्वर पट्टप्रभाकर निस्पृहशिरोमणिसुविहिताग्रण्या-चार्यदेव श्रीमद्विजयकमल सुरोश्वर सट्टालङ्कार - वाचकवर श्रीमद्वीरविजय विनेयरत्न-सकलागमरहस्यवेदि - परमज्योतिर्विच्छ्रीमद्विजयदान सूरीश्वरपट्ट विभूषणैः वचनवारिवर्षणाधरीकृत हिमानीशैत्यैविश्व विख्यातनिष्कलङ्क चरणविभवैः सर्वजनसम्मतैः स्वदर्शनेन प्रायो दुष्टानामपि प्रीतिकार करहर्निशमनेकविबुधश्रमणश्राद्धसंसेवितपादपद्यैः कारुण्यनीराऽऽपूरितहृत्सरैः भव्यजनचकोर चेतश्चन्द्रैः कामकथाशितव्यथामथनैकसूरैः सुविशालगच्छाधिपतिभिः श्रीमद्विजयप्रेमसूरीश्वरैः गुरुत्रयैः श्रीवीरप्रभोः मूलवि षोडशाभ्यधिकसहस्रद्वयाङ्किते (२०१६) विक्रमाब्दे वैशाखमासे शुक्लपक्षस्य षष्ठयां तिथौ शुभे मुहूर्ते प्रतिष्ठापितम् । प्रतिष्ठापितानि च तदानीमेवान्यानि श्रीगोडीपार्श्वनाथ - स्वामिश्री सम्भवनाथस्वामिप्रभृतीनां जिनपतीनां पूरातनानि तथा तैस्तैः श्राद्धवर्यैः कारितानि यथोलक्षणे महामहे प्रवर्तमाने वैशाख शुक्ल तृतीयाया रजन्यां प्रशस्ते मुहूर्ते तैरेव गच्छाधिपगुरुवर्यैः कृतप्राणप्रतिष्ठानि भव्यजननयनानंददायीनि श्रीशान्तिनाथस्वामिप्रमुखानां तीर्थपतीनां पञ्चपञ्चाशदभ्यधिकान्यभिनवानि विम्वान्यपि तत्रैव देवकुलिकादिषु भवजलधिं निस्तरितु कामेन सङ्केनानेन । आरब्धं च तेषामेव गुरुवर्याणामुपदेशाञ्जीर्णप्रायस्य संनिहितवर्त्य जारी ग्रामस्थद्विपञ्चाशजिनप्रासादस्योद्धारकार्यमविलम्बेन । कारितानि च सुबहुमुनिगगपरिकरितानां तेषामाचार्यदेवानामन्येषां मुनिपुङ्गवानां च वर्षावासावस्थानान्यपि कल्याणकामेन, ढाँकितानि च तदानीं स्वगृहाङ्गणे निमन्त्र निमन्त्र्य विपुलवस्त्र -यात्रा -ऽशन - पानौ - पधादीनीव स्वकीयानि लघ्वपत्यानि चरणासेवनसमुत्सुकीनिवचनश्रवणप्रवणेन सङ्घनानेनाचार्यदेवपादमूले, किं बहुना प्रत्राजितान्यपि निजलघुबालरत्नानि तद्वतैः कैचित् श्राद्धसत्तमैः । , Jain Education International : , For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy