SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ तत्र परम्परोपनिधा ] चरमेऽधिकारे जीवसमुदाहारः [६५१ भवति-सातवेदनीयादेश्चतुःस्थानिकादितत्तद्रसं बघ्नतां जीवानां प्रायोग्याया जघन्यायाः स्थितेरारभ्य प्रभूतसागरोपमशतपृथक्त्वस्थितिबन्धस्थानेष्वसंख्यपल्योपमप्रथमवर्गमूलप्रमाणानि स्थितिबन्धस्थानान्यतिक्रम्यातिक्रम्य जीवाः द्विगुणा द्विगुणा भवन्ति, ततः परं तत्तच्चतुःस्थानिकादिरसबन्धकानां प्रायोग्योत्कृष्टस्थितिबन्धं यावत् पल्योपमासंख्येयप्रथमवर्गमलप्रमाणानि स्थितिबन्धस्थानान्यतिक्रम्यातिक्रम्य बन्धकजीवविषया द्विगुणहानयः प्राप्यन्ते। तथाहि-सातवेदनीयस्य चतुःस्थानिकरसं बघ्नन्तस्तत्प्रायोग्याया ज्ञानावरणस्य जघन्यायाः स्थितेर्बन्धकतया वर्तमाना ये जीवास्तेभ्यः समयसमयवृद्धया पल्योपमस्यासंख्येयप्रथमवर्गमूलप्रमाणानि स्थितिबन्धस्थानान्यतिक्रम्यानन्तरस्थितेर्बन्धकतया वर्तमाना जीवा द्विगुणाः सन्ति, ततः पुनरपि तावन्ति पल्योपमस्यासंख्येयप्रथमवर्गमूलगतसमयप्रमाणानि स्थितिबन्धस्थानान्यतिक्रम्यानन्तरस्थितेर्बन्धकतया वर्तमानाजीवा अनन्तरोक्तद्विगुणवृद्धजीवापेक्षया द्विगुणाः सन्ति, निरुक्तजघन्यस्थितेर्वन्धकतया वर्तमानजीवापेक्षया तु चतुर्गुणाः सन्ति, ततः परं तावन्ति स्थितिबन्धस्थानान्यतिक्रम्य पुनरपि द्विगुणा भवन्ति, एवं द्विगुणा द्विगुणास्तावद्वाच्या यावत् चतुःस्थानिकरसबन्धप्रायोग्योक्तजघन्यस्थितिबन्धात्प्रारभ्य प्रभूतानि सागरोपमशतान्यतिक्रमन्ति । इतस्तु यथोत्तरस्थितिबन्धस्थाने तद्वन्धकजीवा विशेषहीना विशेषहीनाः सन्तः पल्योपमस्यासंख्येयप्रथमवर्गमूलप्रमाणानि स्थितिमन्वस्थानान्यतिक्रम्यानन्तरे स्थितिबन्धस्थाने तद्वन्धकतया वर्तमाना जीवा यथोक्तचरमद्विगुणवृद्धिस्थानलक्षणस्थितेर्बन्धकतया वर्तमाना ये जीवा उक्तास्तदपेक्षया द्विगुणहीनाः अर्धा भवन्ति,ततः पुनरपि तावन्ति पल्योपमासंख्येयप्रथमवर्गमूलसमयप्रमाणानि स्थितिबन्धस्थानान्यतिक्रम्यानन्तरस्थितेर्बन्धकतयां वर्तमाना जीवा अनन्तरोक्तद्विगुणहीनजीवापेक्षयाऽर्धा भवन्ति, एवमुक्तप्रमाणानि स्थितिबन्धस्थानान्यतिक्रम्यातिक्रम्य द्विगुणहानयोऽपि तावद्भवन्ति यावत् प्रभूतानि सागरोपमशतान्यतिक्रम्य सातवेदनीयस्य चतुःस्थानिकरसं बघ्नतां जीवानां बन्धप्रायोग्या ज्ञानावरणस्योत्कृष्टा स्थितिरिति । इत्थमेव सातवेदनीयस्य त्रिस्थानिकरसबन्धकानां द्विस्थानिकरसबन्धकानामसातवेदनीयस्य चतुःस्थानिकरसबन्धकानां त्रिस्थानिकरसबन्धकानां विस्थानिकरसबन्धकानां विषयेऽपि वृद्धिहानयो वाच्याः, नवरं सातवेदनीयस्य द्विस्थानिकरसबन्धं कुर्वत्सु जीवेषु द्विगुणहानयस्तावद्वाच्या यावत्संख्येयकोटिकोटिसागरोपमाणि स्थितिबन्धस्थानान्यतिक्रम्य सातवेदनीयस्य पञ्चदशकोटिकोटिसागरोपमोत्कृष्टस्थित्या समं ज्ञानावरणस्य तत्प्रायोग्योत्कृष्टस्थितिवन्धो भवति, इत्थमेवासातवेदनीयस्य चतुःस्थानिकरसं बध्नतां जीवानां द्विगुणहानिविषयेऽपि द्रष्टव्यम् . नवरं तत्र द्विगुणहानयस्तावद् द्रष्टव्या यावज्ज्ञानावरणस्योत्कृष्टस्थितिबन्धस्त्रिंशत्सागरोपमकोटिकोटिप्रमाणः । उक्तं च कर्मप्रकृतिचूर्णी ___ परित्तमाणिगाणं सुभाणं चउट्ठाणबन्धगा णाणावरणीयस्स जहण्णिगाए ठितीए जीवेहितो ततो असंखेजाणि पलिभोवमवग्गमूलाणि गंतूणं दुगुणवढ़िया जीवा । ततो पुणो तत्तियं चेव गंतूणं दुगुण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy