SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १२८] बंधविहाणे मूलपयडिठिइबंधो [मार्गणस्थानेष्वायुर्वज॑नाम् सर्वाध्यवसायानां सर्वजघन्यस्थितिबन्धहेतुकत्वादेव सर्वविशुद्धत्वं विवक्षित्वा पूर्वमोघतो यासु चौधिकजघन्यस्थितिबन्धस्तासु मार्गणासु तद्वन्धकानां सर्वविशुद्धत्वं दर्शितम् । अत्र शेषमार्गणासु त्वौधिकजघन्यस्थितिबन्धाभावाज्जघन्यस्थितिबन्धस्वामिनस्तत्प्रायोग्यविशुद्धा इत्युक्तमिति ॥११६।१२०॥ तदेवं दर्शिता शेषमार्गणाविषया सामान्यवक्तव्यता । साम्प्रतं यो विशेषस्तं प्रचिकटयिषुराह अत्थ विसेसो वुच्चइ सत्तण्हं बंधगो लहुठिईए। पढमदुइअसमये खलु असलियो आगो णेयो ॥१२१॥ णिरय-पढमणिरयेसु अपज्जणर-देव-भवणजुगलेसु। (प्रे०) “अत्थ विसेसो वुच्चइ” इत्यादि “अत्थ"त्ति यास्वनन्तरं सप्तानां कर्मणां जघन्यस्थितिवन्धस्वामी सामान्यतस्तद्योग्यसर्वशुद्ध इति वक्तव्यतया दर्शितस्तासु शेषमार्गणास्वित्यर्थः । तासु शेपमार्गणासु किमित्याह--''विसेसो वुच्चइ"त्ति तासु साम्प्रतं विशेष उच्यत इति प्रतिज्ञा । तामेव निर्वाहयन तत्तन्मार्गणासु विशेषमाह- "सत्तण्ह"मित्यादिना, आयुर्वजेसप्तानां कर्मणां 'लघुस्थितेः'जघन्यस्थितेबन्धकः, ज्ञेय इति गाथाप्रान्तेऽन्वयः । को ज्ञेय इत्याह--"पढमे'त्यादि, मार्गणायाः प्रथमसमये द्वितीयसमये च वर्तमानोऽसंज्ञित आगतः, असंज्ञिपञ्चेन्द्रियेभ्यश्च्युत्वाविग्रहगतौ नारकादितया भवप्रथमद्वितीयसमययोवर्तमानो जीव इत्यर्थः । केषु मार्गणाभेदेष्वित्याह-"णिरय" इत्यादि, निरयगत्योध-प्रथमपृथिवीनिरयभेदयोः, अपर्याप्तनर-देवौघ-भवनपति-व्यन्तरदेवेष्वित्येतेषु पएमार्गणाभेदेबित्यर्थः । इदमुक्तं भवति–एकेन्द्रियाद्यसंज्ञिभ्यश्च्युत्वासंज्ञित्वेनोत्पद्यमाना जीवा विग्रहगतौ वर्तमानाः सन्तोऽसंज्ञिप्रायोग्यं स्थितिबन्धं कुर्वन्ति, यदा तूत्पत्तिस्थानं प्राप्नुवन्ति तदाऽऽहारं गुर्वन्तः संक्षिप्रायोग्यमन्तःकोटीकोटीसागरोपमप्रमाणं स्थितिबन्धं निर्वर्तयन्ति, इत्थं हि येषु देवेषु नारकेषु चैते उत्पद्यन्ते तेषु सर्वजघन्यस्थितिबन्धस्तेषां विग्रहगतौ वर्तमानानामसंज्ञिभ्य आगतानां जीवानां भवति, असंज्ञिभ्यश्च्युत्वा तु ते प्रथमनरके भवनपतिदेवेषु व्यन्तरेषु चोत्पद्यन्ते, न पुनः शेषनरकेषु देवेषु वा। अतः शेपदेवनरकभेदान् विहाय यासु मार्गणासु प्रथमपृथिवीनरकजीवा भवनपतिव्यन्तरदेवा वा समाविष्टास्ता एव संगृहीताः। अपर्याप्तमनुष्यमार्गणायामिव पर्याप्तमनुष्यमार्गणायामप्यसंज्ञिन उत्पद्यन्ते, तथापि पर्याप्तमनुष्येषु सर्वजघन्यस्थितिवन्धं कुर्वन्तः क्षपका एव प्राप्यन्त इति पर्याप्तमनुष्यमार्गणां त्यक्त्वाऽपर्याप्तमनुष्यमार्गणा संगृहीता । ननु भवतूक्तदेवनरकगतिभेदपञ्चकस्य संग्रहः, न पुनरपर्याप्तमनुष्यमार्गणाभेदस्यापि संग्रहो युज्यते, अपर्याप्तमनुष्यमार्गणायामसंज्ञिजीवानामेव समावेशेन भवप्रथमसमयद्वयादन्यत्रवर्तमानानामपि जघन्यस्थितिबन्धस्वामित्वसम्भवाद् ? इति चेद्, सत्यम्, तथाऽपि शतक-ग्रन्थादिवदत्राप्यभिप्रायविशेषेण मनुष्यापर्याप्तमार्गणायां संध्यपर्याप्तजीवा एव गृहीता बोद्धव्याः । उक्तं च शतके-“सेसासु जाण दो दो" इति । अत्र "दो दो', इत्यनेन संज्ञिपर्याप्ता-र्याप्तौ द्वौ द्वौ जीवभेदावभिमतौ विज्ञेयौ । उक्तं च तच्चूा --"सेसासु जाण दोदो उ" त्ति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy