SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ श्री कथारत्नाकरे श्री हेमविजयरचिते स धूसरोऽपि रामचन्द्रसीतादिवेषे समानीते तं नटमाह-प्रभाते महिषीमेकामहं ते दास्ये, हरिश्चन्द्रवेषे चानीते नवप्रसूतामेकां गामुषसि वितरिष्यामि, उमामहेशवेषे चोपस्थिते महान्तमेकं वृषभं विभाते दास्यामीति वदति तस्मिन् पेशलोऽपि विशेषतस्तमुद्दिश्य नृत्यं व्यधात्। अथ प्रभाते विसृष्टे च नाट्ये सर्वेष्वपि लोकेषु निजास्पदं गतेषु स नटोऽपि विहितदन्तधावनादिप्रभातकृत्यः सपरिकरो धूसरधामनि गतवान्, याचितश्च नक्तोक्तं, स धूसरस्तमाह, हे नट ! भवता यथा मम दृशोस्तुष्टिरकारि, तथा मयाऽपि तव कर्णयोस्तोषो निर्ममे, इति वञ्चितः स नट: स्वस्थानं ययौ ॥ इति धूर्तचरित्रविषये धूसराऽऽभीरकथा ॥९३ ॥ ॥९४ ॥मतिविषये प्रीतिमतीकथा ॥ सर्वत्र सर्वथा सर्वेषां मतिमानेव प्रीतिहेतुः, यत: न भ्रातरि न च मातरि न च, नेतरि नापि पितरि न स्वसरि । न च दातरि न च गातरि सा, प्रीतिर्या च बोधरि नरि स्यात् ॥ १ ॥ तेन मतिमतां न किमपि दुरवबोधं, यत:प्रज्ञाप्रभावविदिताऽखिलचेष्टितानां, चेतस्विनां किमवबोधमुपैति नैव ।। कन्याचतुष्टयविवादमबोधि रामं-पुश्रे इति च्छलमयं सचिवाऽऽत्मजा यत् ॥ २ ॥ तथाहि- श्रीनन्दिपुरे नगरे मणिशेखरो नाम राजा, सुबुद्धिमन्त्री, प्रीतिमतीनाममन्त्रिपुत्री। तत्र च पुरे कमला-रमा-लक्ष्मी-पद्माभिधानाश्चतस्रः श्रेष्ठिसुताः कुमारिकाः, तासु चैका वासुदेवं, द्वितीया श्रीदेवी, तृतीया महेश्वरं, चतुर्थी भवानी चेति वरार्थिन्यस्ता आराधयामासुः । कुसुमकुङ्कमकर्पूरकालागुरु श्रीखण्डबलिभिरनिशं पूजितास्तेऽमी देवास्तद्भक्तिभरवशीकृता अन्यदा प्रत्यक्षीभूय वरं याच्यतामिति ताः प्रति प्रोचिरे। अस्माकमुचितवरवाञ्छां पूर्यतामिति ताभिरुक्तास्ते प्रत्येकं 'रामंपुश्रे' इति वर्णचतुष्टयं दत्त्वा तिरोदधिरे। अथैतेषां वर्णानामर्थमजानानास्ता:स्वस्वपितृन् प्रोचुः । तत्पितरोऽपि स्वयमन्यपण्डितेभ्यश्च तदनिर्णयं मत्वा राज्ञे विज्ञपयन्ति स्म। राजापि स्वान् पञ्चशतपण्डितान् सुबुद्धिं च मन्त्रिणमभणत्- भो पण्डिता! एतन्निर्णयः क्रियतां, न चेन्मदाज्ञाविषयो विषयो मुच्यतामिति सप्तदिनसीमानमङ्गीकृत्य गतेषु तेषु सुबुद्धिरपि श्याममुखः स्वं धाम जगाम। चिन्ताकारणं पृष्टः सः सर्वं प्रीतिमत्यै जगौ। सद्योऽवगततदर्था सा बुद्धिमती द्रुतमेवैतन्निर्णयं करिष्ये इति पितरं प्राह । अथ प्रभाते प्रमुदितेन पित्रा समं भूपपर्षदि गत्वा सा लघीयसी प्रीतिमती तेषामक्षराणामर्थमचीकथत्। 'रा' इति राज्ञः सुतः प्रोक्तः, 'मं' इति मन्त्रिनन्दनः, पु इति पुरोधसः पुत्रः, श्रे इति श्रेष्ठिनोऽङ्गजः, एवं सम्यगर्थकथनतस्तुष्टेन राज्ञा वस्त्राऽऽभरणादिना सा सत्कृता, अहो ! मतिकौशलमस्या इति १. नक्तमुक्तं - P। नक्तयुक्तं - BD ॥ २. पुश्रेति-AHPBD | Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001835
Book TitleKatharatnakar
Original Sutra AuthorHemhans Gani
AuthorMunisundarsuri
PublisherOmkar Sahityanidhi Banaskantha
Publication Year1997
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy