SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मल्पबहुत्वम् ] सम्यक्त्वाधिकारः [ (२०) ततो जघन्यस्थितिखण्डम संख्येयगुणम् । जघन्यतः स्थितिखण्डं पल्योपमसंख्येयभागप्रमाणं भवति, उत्कृष्टाऽवाधा च स्थितिबन्धस्याऽन्तःसागरोपमकोटिकोटित्वेनाऽन्तमुहूर्तप्रमाणैव भवति, तथाऽन्तर्मुहूर्ततः पन्योपमसंख्येयभाग संख्यातगुणो भवतीति हेतोरुत्कृष्टाऽबाधातो जघन्यस्थितिखण्ड मसंख्येय गुणम् । ७७ (२१) तत उत्कृष्टस्थितिखण्डं संख्यातगुणम् । जघन्यस्थितिखण्डं पल्योपमसंख्येयभागप्रमाणं भवति, उत्कृष्टस्थितिखण्डं तु सागरोपमपृथक्त्व प्रमाणमिति पूर्वतः संख्यातगुणं भवति । (२२) ततो जघन्यस्थितिबन्धः संख्येयगुणः । जघन्यस्थितिबन्धस्याऽन्तः सागरोपमकोटाकोटित्वेन पूर्णतः संख्यातगुणत्वम् । (२३) तत उत्कृष्टस्थितिबन्धः संख्यातगुणः । Jain Education International युत्कृष्टस्थितिबन्धोऽप्यन्तः सागरोपमकोटाकोटिप्रमाणस्तथाऽपि स पूर्वतः संख्यातगुणो भवति, गत उत्कृष्टस्थितिबन्धस्याऽपूर्वकरणस्य प्रथमसमयभावित्वेनाऽनिवृत्तिकरणचरमसमयभावी मिथ्यात्वस्य जघन्यस्थितिबन्धः संख्यातगुणहीनो भवति । कथमिति चेद् ? उच्यतेअपूर्वकरणस्य प्रथमस्थितिबन्धतोऽपि तच्चरमस्थितिबन्धः संख्यातगुणहीनो भवतीत्युक्तः, ततोपूर्णकरणस्य प्रथमस्थितिबन्धतोऽनिवृत्तिकरण चरमसमयस्थितिबन्धः सुतरां संख्यातगुहीनो भवति, अतोऽनिवृत्तिकरणत्तरमसमयभाविजघन्यस्थितिबन्धतोऽपूर्वकरणस्यप्रथमसमयभाध्युत्कृष्टस्थितिबन्धः संख्यातगुणो वक्तव्यः । एवं शेषकर्मणामुत्कृष्टस्थितिबन्धोऽपूर्वकरण प्रथमसमये भवति, जघन्यस्थितिबन्धश्च मिथ्यात्व सत्कगुणसङ्कम निवर्तनकाले भवति । अपूर्वकरणस्य प्रथमसमय भाविस्थितिबन्धतस्तच्चरिम समय माविस्थितिबन्धः संख्यातगुणहीनो भवति, ततोऽप्यग्रेतनस्य स्थितिबन्धस्य प्रत्यन्तर्मुहुर्त हीयमानत्वेन मिथ्यात्वस्य सङ्क्रमनिवर्तन कालीनजघन्यस्थितिबन्धस्य सुतरां संख्यातगुणहीनत्वं सिध्यति । इत्थं शेषकर्मणामपि मिथ्यास्वसत्कगुणङ्क्रम निवर्तनकालीन जघन्यस्थितिबन्धतोऽपूर्वकरणप्रथमसमय भाव्युत्कृष्टस्थितिबन्धः संख्यातगुणो भवति । (२४) ततो जघन्यस्थितिसत्ता संख्यातगुणा । अप्रमत्ताऽभिमुखस्य मिथ्यादृष्टेर्जन्तोर्मिथ्यात्वस्योदयचरमसमये मिथ्यात्वस्य सत्कर्म शेषकर्मणां च सत्कर्म मिथ्यात्वगुणसङ्क्रमनिवर्तनकाले जघन्यं भवति, तस्य चाऽन्तः सागरोपमकोटाकोटिप्रमाणत्वेऽप्युत्कृष्ट स्थितिबन्धतः संख्यातगुणत्वं भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy