SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ पर्यायनामानि ] अश्वकर्णकरणाधिकारः [६३ खवणाए अन्भुट्टियस्स अप्पप्पणो चरिमसमयबद्धस 'सगअंतिमेत्ति अप्पप्पणो चरिमसमए छोभे सव्वसंकमणं जहणतो पदेससंकमो होति त्ति । कहं ? भण्णइएतेसिं चतुण्हं बंधवोच्छेयकाले दुआवलियबद्धलतं मोत्तण अण्णं णत्थि पदेसग्गं, तं च समए समए खीयमाणं अंतिमे समए अंतिमसमयबद्धस्स असंखेज्जतिभागो सेसो भवति, तेण चरिमसमए जहण्णतो पदेससंकमो होइ ।” इति । कषायप्राभृतचूर्णिकारैस्तु चरमसमयबद्धप्रदेशाग्रं संक्रमयत उपशमकस्य जघन्यप्रदेशसंक्रमो ऽभिहितः । तथा च तद्ग्रन्थः- “कोहसंजलणस्स जहण्णओ पदेससंकमो कस्स ? उवसामयस्स चरिमसमयबडो जाधे उवसामिज्जमाणों उवसंतो, ताधे तस्स कोहसंजलणस जहण्णओ पदे ससंकमो, एवं माणमायासंजलणपुरिसवेदाणं । इति ॥ ५८ ॥ तदेवमभिहितस्तृतीया-ऽधिकारः । सम्प्रति "हयकण्ण" इत्यनेनोद्दिष्टस्य चतुर्था-ऽधिकारस्या-ऽवसरः । यद्यपि चतुर्थाधिकारः पञ्चमा ऽधिकारो बादरकिट्टिपर्यसानः षष्ठाऽधिका श्चेत्येते.ऽनिवृत्तिकरणे एव भवन्ति, वादरकिट्टिवेदनचरमसमयं यावदनिवृत्तिबादरसम्परायगुणस्थानस्योपलम्भात् , तथापि क्रियाविशेषप्रतिपादनार्थमनिवृत्तिकरणतः पृथगधिकारत्वेन हयकर्णकरणाद्धादयो निर्दिष्टाः । अनिवृत्तिकरणं तु बादरकिट्टिवेदनाद्धाचरमसमये व्यवच्छेत्स्यति । पुरुषवेदोदयेऽपगते क्रोधवेदनाद्धायास्त्रयो भागाः कर्तव्याः। तत्र प्रथमभागे हयकर्णकरणाद्धा, द्वितीयभागे किट्टिकरणाद्धा, तृतीयभागे च क्रोधकिट्टिवेदनाद्धा । अथ चतुर्थाऽधिकारं हयकर्णकरणाद्वालक्षणं विभणिपुरादौ तावद् हयकर्ण करणाद्धायाः पर्यायनामानि प्राह हयकरणादोलोव्वट्टणउव्वट्टणकरणश्रद्धा। हयकण्णकरणकालस्स तिनि णामाणि णेयाणि ॥५६॥ (उपगीतिः) हयकर्णा-ऽऽदोला-ऽपवर्तनोद्वर्तनकरणा-ऽद्धा । हयकर्णकरणकालस्य त्रीणि नामानि ज्ञेयानि ।।५६ ।। इति पदसंस्कारः। 'हयकण्ण' इत्यादि, 'हयकर्णा-ऽऽदोलापवर्तनोद्वर्तनाकरणाद्धा' करणाद्धाशब्दः प्रत्येकमभिसम्बध्यते । ततश्चा-ऽयमर्थः-हयकर्णकरणाद्धा आदोलकरणाद्धा अपवर्तनोद्वर्तनकरणाद्धा च 'हयकर्णकरणकालस्य' अश्वकर्णकरणाद्धायाः 'त्रीणि' त्रिसंख्याकानि नामानि' पर्यायना. मानि 'ज्ञेयानि' सार्थकानि ज्ञातव्यानि । उक्तं च कषायप्राभृतौँ -"अस्सकण्णकरण त्ति वा आदोलकरणे त्ति ओवट्टणउव्वट्टणकरणे ति तिणि णामाणि अस्सकपण. करणस्स ।" इति । एतदुक्तं भवति-हयति हिनोनि वा हयः ॥ अच्" (सिद्धहेप० ५-१-४६) इत्यनेन सूत्रेण हिधातो कर्तरि अच्प्रत्ययः, अश्व इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy