SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १२९ सहसैवोद्भिद्यमानपुलकाश्चितकपोलभित्तिना विलोललोचनोत्पलेन मुखशशिना प्रकाश्यमानाधित संभ्रमः समचिन्तयत-'हन्त, किमिदमकाण्ड एवापरमाश्चर्यमुपनतम् ? यतः क्वचिदन केनापि कलकण्ठकोमलगिरा श्लोक इव पठ्यते ; तत्र च हरिवाहनशब्द इवोच्चार्यमाणः श्रयते । क एप हरिवाहनः ? किं वयस्यः ? आहोस्विद् वयस्यनामधेयामिधेयः कोऽप्यपरः १ कुतोऽत्र वयस्यस्य संभवः १ प्रायः केनापि करुणापराधीनवृत्तिना दिव्येन 5 ममेदमाश्वासनं क्रियते । कृतमली कविकल्पकल्पनाभिर्मनसा खेदितेन । पश्यामि तावत् कः पुनरेष पठति । इति कृत्वा मतिम् , उन्मुक्तवातायनस्त्वरिततरमायतनान्निर्गत्य, तं पाठशब्दमनुमरन्नामोदिहरिचन्न नोदकच्छटासिक्तेन मौक्तिकचतुष्कविरचनाचारुणा कुङ्कुमारुणाभिरङ्गनाचरणपद्ममुद्राभिर्द्विगुणितकनपङ्कजोपहारेण झङ्कारानुमीयमानपरिमलान्धनिलीनमधुलिहा महानीलमणिकुट्टिमेन व्योम्नेव यामिनीपतिर्याम्यदिङ्मुखाभिमुखः पदशत- 10 भात्रमन्तर जगतीमध्य एव जगाम । गत्वा च संपिण्डितसुरचापपरमाणुनिवहमनोहराकारमनेकवर्णतया, स्वचिद् विन्ध्याचलमिव धवलताक्रान्तम् , क्वचित् सुग्रीवमिव कपिशतान्वितम , कचिद् दशास्यमिव नीललोहितप्रभाषाप्तश्रियम् , विजवार्धशैलमिव मालिकात्रयमनोहरम् , पौर्णमासी दिनावसानमिव सकलशशिखरांशुभूषितम् , विपिनमिव कपोतपालीकलितम् , उल्लसितकोमलार्करोचिषं शिशिरम् , उद्दामकुसुमप्रकरशोभन सुरभिम् , 15 आसन्नभसं शुचिम् , अशेपमणिशिलाविशेषकृतनिर्माणमुदङ्मुखद्वारम् , अङ्गभारभङ्गुरितकमठराजपृष्ठम् , अलपिठम् , अभिनवं मठमैक्षिष्ट ॥ १७४) प्रविष्टमात्र एवात्र पुरतो दत्तदृष्टिरुत्कृष्टयसनधारिणमुदारदिव्याभरणभूपिताङ्गम , अङ्गरागपरिमलामोदितदिगन्तरम् , अवतीर्य मणिशिलासोपानमालया शिखरशालायास्तत्क्षणमेव द्वाराभिमुखपरिवर्तिताननम् , अवतरणकम्पादीष वनस्तकुसुमस्रजः 20 शिरसिजकलापस्य तिगुन्नमितेन वामपाणिना शनैः शनैरारब्धसंवरणम् , आनन्दनिर्भरतया हृदयम्य ताम्बूलगर्मतया च गण्डद्वयम्य किञ्चिदविशदोच्चारितपदं, प्रत्यङ्गमर्पितेन चक्षुषा प्रसादलब्धामिवावलोक्य वारंवारमनुपमामात्मनो वेपलक्ष्मीमुपजातविस्मयम् , इमां द्विपदिकां पठन्तमतिसगर्व गन्धर्व कम पश्यत ---- " आकल्पान्तमर्थिकल्पद्रुम ! चन्द्रमरीचिसमरुचि । प्रचारयशोशुभरितविश्वभर ! भरतान्वयशिरोमणे ! जनवन्यानयद्यविद्याधर ! विद्याधरमनस्विनीमानसहरिणहरण ! हरिवाहन ! वह धीरोचितां धुरम् ।। ६५ ।।” १७५) दृष्टमात्र एव च तत्र, संजातपरमोच्छ्वासः, प्रथमपाथोदाभिवृष्ट इव मरुस्थलाभोगः पार्वणेन्दुचन्द्रिकापरिप्लावित इव ग्रीष्मकुमुदाकरः, परां निर्वृतिमवाप । 30 मन्यमानश्च तत्र क्षणे साक्षादेव संप-नमात्मनः सहदा सह समागमम् , आनन्दजल 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001574
Book TitleTilakmanjari
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi
PublisherL D Indology Ahmedabad
Publication Year1991
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy