SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ उत्तरम् को विबुधो विबुधानां ?, दुष्कर्माऽऽसेवको भवेत् कीदृग् ? । कोऽस्माकं तीर्थानां चोद्धर्ता भवति ? गुरुरेव ॥१४६ ॥ ॥ १४७ ॥ सूक्ष्मम् घनगर्जनानुकारि –त्वत्प्रवचनघोषणां समाकर्ण्य । उत्सूत्रभाषिभिः किल वेतसयष्टिः प्रदर्शिताऽन्योन्यम् पिहितम् दुर्वादिदर्पमर्दन- निपुणं गुरुवर ! भवन्तमभिवीक्ष्य । वस्त्रैर्दुण्ढकलिङ्गः- स्वकीयवदनानि पिहितानि ॥१४८॥ व्याजोक्तिः "भयविह्वला नहि वयं किन्त्वस्ति त्वरितमद्य कार्यवशात् ।" • इति जल्पन्तो गुरुवर !मत्सरिणस्तव पलायन्ते ॥१४९ ॥ गूढोक्तिः मत्तमतङ्गज ! मत्तो न बिभेष्यन्तःपुरं च भेदयसि । किन्त्वधुना त्वयि रुद्रो वर्तत इह गुरुरिति त्वया ध्येयम् ॥१५० ॥ विवृतोक्तिः वज़ भो मत्तमतङ्गज ! त्यज विपिनं मेऽद्य नेमिशरणस्य इति साकूतं गदितं नेमिगुरोः सेवकेन नृणा ॥ १५१ ॥ युक्तिः शासननिन्दकलोका वीक्ष्य भवन्तं भयात् स्वयं चैव । “वयमभिनन्दामो” गुरु-देवैवं कलकलायन्ते ॥ १५२ ॥ लोकोक्तिः वर्णननिरपेक्षं तव गुणगौरवमस्ति विश्वविख्यातम् । आदर्शदर्शन नह्यपेक्षते हस्तकङ्कणकम् ॥ १५३ ॥ छेकोक्तिः गुरुवर ! शिष्योन्नत्यै त्वकृतपुरुषार्थमत्र को वेत्ति ?। सर्वसहैव वेत्ति हि सहिष्णुतां वस्तुतो नान्यः ॥ १५४ ॥ वकोक्तिः "माऽन्यं स्तूही त्युक्ते स्तवीम्यहं मान्यमेव वक्तीति । जिहवाऽसामान्यगुण ! प्रभो ! भवन्तं मनसिकृत्य ॥१५५ ॥ स्वभावोक्तिः निजमूर्धानं धुन्वन् सोत्तेजितमेव निर्निमेषाक्षः । वाणी शृणोति भवतः संहदयवर्गः सुगुरुराज! ॥ १५६ ॥ ___ भाविकम् अद्यापि दृष्टिपटले- ऽवतरति सिंहानुकारिणी भवताम् । भव्याकृतिर्हि भव्यान् भव्यं ददती प्रभावभृता ॥ १५७ ॥ For private & Personaruse Only Jain Education internatio www.jainenbrary.org
SR No.001474
Book TitleNamu Guru Nemisuri Sansarma
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherVijaynemisuri Gyanshala Ahmedabad
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Gujarati & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy