SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ 51 OR, THE LION AND THE BULL. Book I. Tale viii: Weaver as Vishnu. विवाहयामि । ततस तया । मनोरथानाम अप्य् अगम्यम् । इति मत्वा । तथा । इति प्रतिपन्नम् । तेनासौ गान्धर्वेण विवाहेन परिणीता। ततस तयोः प्रतिदिवसं वर्धमानानुरागयोः सुरतसुखान्य अनुभवतोर् गच्छन्ति दिवसाः । कौलिको ऽपि राविशेषसमये यन्त्रगल्डम् आरुह्य । *वैकुण्ठस्वर्ग यास्यामि । इति *ताम उत्कला- 6 पयित्वा स्वगृहम अलक्षितो नित्यम एवागच्छति। अथ कदाचिच् चान्तःपुररक्षिभिः पुरुषोपभोगचिहान्य आलक्ष्य राजदुहितुः प्राणविनाशभयभीतः स्वामिने निवेदितम् । देव ।' अभयेन प्रसादः क्रियताम् । किंचिद् विज्ञप्यम् अस्ति । राज्ञा । तथा । इति प्रतिपन्ने ऽन्तःपुरपालैर् विज्ञप्तम । देव । प्रयत्नेनापि रक्ष्यमाणे पुरुषप्रवेशे राजदुहितुः सुदर्शनायाः पुरुषेणोपभुज्यमा- 11 नाया इवाकारः संलक्ष्यते । नात्रास्माकं गतिविषयः । देव एवात्र प्रमाणम्। एवम आवेदितो राजा समाकुलेन मनसा व्यचिन्तयत्। 15 जाति कन्या महतीह चिन्ता कस्मै प्रदेयेति महान वितर्कः । दता सुखं प्राप्स्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम् ॥२१२॥ indra तथा। जननीमनो हरति जातवती परिवर्धते सह शुचा सुहृदाम्। परसात कृतापि कुरुते मलिनं दुरतिक्रमा दुहितरो विपदः ॥२१३॥ prami 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy