SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Book I. THE ESTRANGING OF FRIENDS; ____Frame story: Lion and bull. vasa Vasa क्षिप्रं विनाशम् उपयान्ति हि दुर्विनीताः प्रादोषिका व दरिद्रगृहेषु दीपाः ॥२६॥ किं च। काले यथावदधिगतानरपतिकोपाद्यशेषवृत्तान्तः । नृपभवने नतमूर्तिः । संयतवस्त्रः शनैः प्रविशेत् ॥२७॥ अन्यच् च। आसन्नम एव नृपतिर् भजते मनुष्य विद्याविहीनम् अकुलीनम् असंस्तुतं वा । प्रायेण भूमिपतयः प्रपदा लताश च यत् पार्श्वतो भवति तत् परिवेष्टयन्ति ॥२८॥ अपि च । कोपप्रसादवस्तूनि । विचिन्वन्तः समीपगाः। आरोहन्ति शनैर् भृत्या। धुन्वन्तम् अपि पार्थिवम् ॥२९॥ किं च। सुवर्णपुष्पां पृथिवीं। चिन्वन्ति पुरुषास् चयः । शूरश च कृतविद्यश च । यश् च जानाति सेवितुम् ॥३०॥ सा च सेवा यथा क्रियते । तथा श्रूयताम। प्रिया हिताश च ये राज्ञां । ग्राह्यवाक्या विशेषतः। आश्रयेत् पार्थिवं विद्वांस । *तहारेणैव नान्यथा ॥३१॥ यो न वेत्ति गुणान् यस्य । न तं सेवन्ति पण्डिताः। न हि तस्मात् फलं किंचित् । सुकृष्टाद् ऊषराद् इव ॥३२॥ द्रव्यप्रकृतिहीनो ऽपि । सेव्यः सेव्यगणान्वितः । भवत्य आजीवनं तस्मात् । फलं कालान्तराद् अपि ॥३३॥ सेवकः स्वामिनं द्वेष्टि । सेवकाधम इत्य असौ। आत्मानं स न किं द्वेष्टि । सेव्यासव्यं न वेत्ति यः ॥३४॥ राजमातरि देव्यां च । कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे । कर्तव्यं राजवत् सदा ॥ ३५॥ युद्धकाले अग्रगो यः स्यात् । सदा पृष्ठानुगः पुरे। प्रभुद्वाराश्रितो हर्ये । स भवेद् राजवल्लभः ॥३६॥ जीवेति प्रब्रुवन् प्रोक्तः । कृत्याकृत्यविचक्षणः । करोति निर्विकल्पं यः । स भवेद राजवल्लभः ॥३७॥ प्रभुप्रसादजं वित्तं । सत्पात्र यो नियोजयेत् । वस्त्राद्यं च दधात्य अड्ने । स भवेद् राजवल्लभः ॥३८॥ प्रोक्तः प्रत्युत्तरं नाह । विरुद्धं प्रभुणा च यत्। न समीपे हसत्य उच्चैः । स भवेद राजवल्लभः ॥३९॥ अन्तःपुरचरैः सार्ध। यो न मन्त्र समाचरेत् । न कलर् नरेन्द्रस्य । स भवेद् राजवल्लभः ॥ ४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy