SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 99 OR, THE LION AND THE BULL. Book I. Tale xxi: Jackal outwits camel and lion. Frame-story. क्रमेलकहृदयम आत्मना भक्षयित्वा कथं मे मुखम अवलोकयसि। तच् छ्रुत्वा क्रव्यमुखः प्राणभयात् प्रपलाय्य देशान्तरं गतः। सिंहश च किंचित् तम् अनुसृत्य । नखायुधो ऽवथ्यो मे । इति विचिन्य : निवृत्तः। एतस्मिन्न् अन्तरे दैवयोगात् तेनैव मार्गेण महान *दासेरकसार्थो भाराक्रान्तो यीवावबद्धबृहद्घण्टापरणकारकारी समाग-6 छति । तस्य च महान्तं घण्टानादं दूराद् एव श्रुत्वा सिंहो जम्बुकम उवाच । भद्र । ज्ञायताम् । क एष रौद्रो नादः । तच छ्रुत्वा चतुरकः किंचिद् वनान्तरं गत्वा सत्वरम अभ्येत्य सावेगम , उवाच । स्वामिन । गम्यतां गम्यताम् । यदि शक्नोषि गन्तुम् । सो ऽब्रवीत् । भद्र । किम् एवं *मां व्याकुलयसि । तत् कथय । किम् एतत् । चतुरक आह । स्वामिन । एष धर्मराजस् तवोपरि 12 कुपितो ऽभ्येति । यत् किलानेन मदीयदासेरको मां प्रतिभुवं दत्वाकाल एव व्यापादितः । तत् सहस्रगुणम् आत्मीयम उष्ट्रम अस्माद् अहं *ग्रहीयामि । इति निश्चित्य बृहदुष्ट्रमानम् आदायै- 15 नदीयपितृपितामहान अपि गवेषयितुकाम इत एव संनिहितो ऽभ्युपैति । तच छ्रुत्वा सिंहो ऽपि मृतम् उष्ट्रं परित्यज्य स्वमाणभयात् प्रनष्टः । चतुरको ऽपि शनैः शनैस तस्योष्ट्रस्य मांसं 18 चिरं भक्षयाम आस ॥ अतोऽहं ब्रवीमि । परस्य पीडनं कुर्वन् । इति । अथ गते दमनके संजीवकश चिन्तयाम आस । किं करोमि । यदि तावद् अन्यत्र गच्छामि। तद् अन्येनापि क्रूरसत्त्वेन मे वधः 21 क्रियते । यतो निर्जनं वनम् एतत् । रुष्टेषु च स्वामिषु गन्तुम् अपि न शक्यते । उक्तं हि । कृत्वापराधं नष्टः सन् । दूरस्थो स्मीति नाश्वसेत्। दीर्घ बुद्धिमतां बाहू । कर्षतो हि प्रमादिनम् ॥ ३५५॥ 24 तद् वरं सिंहम एवानुसरामि । कदाचित् । शरणागतो ऽयम्। इति मत्वा मां त्यजेद अपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001450
Book TitlePanchtantram
Original Sutra AuthorN/A
AuthorVishnu Sharma
PublisherVishvanandikar Jain Sangh Ahmedabad
Publication Year1988
Total Pages324
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy