SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 'तपागच्छश्रिया लीलाललाममिव जङ्गमम् । श्रीहीरविजयं प्रीतेरैषीदेष निषेवितुम् ॥११९॥ चतुर्भिः कलापकम् । (१) निजाभिष्टानवाप्तेः । (२) दुःखीभवतः । (३) इच्छापूरणपर्यन्तलब्धसमस्तकामितान् । (४) कर्तुमिच्छुः । (५) स्वर्गात् । (६) कल्पतरुम् ॥११६॥ (१) स्वस्योदयाय - चतुरंशैः स्थिरीभवनाय चतुरङ्गतया प्रादुर्भवाय वा । (२) निष्कास्य। (३) कृतं युगम् । कृतयुगे धर्मश्चतुराङ्गः] स्यात्, यदुक्तं नैषधे - "पदैश्चतुभिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे" इति । (४) रात्रिंदिवसम् । (५) रविम् । (६) शरीरवन्तम । (७) प्रकटीभूतम् ॥११७॥ (१) चतुर्थारके इव । (२) दुःख( दुःष )मारकेऽपि । (३) गृहीतावतारम् । (४) मोक्षे प्रापयितुम् । (५) द्वितीयवारम् ॥११८॥ (१) तपागच्छलक्ष्म्याः । (२) लीलातिलकमिव । ललामशब्दो नकारान्तोऽकारान्तोऽप्यस्ति - "ललामवल्ललाम( मा )श्वे" अदन्तः पुंक्लीबे, नकारान्तः क्लीबे इत्यनेकार्थे । (३) चलत् । (४) इच्छति स्म । (५) मेघजीऋषिः ॥११९॥ चतुः । कल्पद्रुसदृशं पुनः कृतयुगकारिणं पुना रवितुल्यं पुनर्मूर्तिमद्धर्मरूपं गौतमावतारं पुनस्तपागच्छतिलकं श्रीहीरविजयसूरि सेवितुं स वाञ्छति स्म ॥११७-११८-११९-१२०॥ व्रतं जिघृक्षः सोऽकाँक्षीद्धीहसूरेः समागमम् । "श्रीसुव्रतजिनस्येव कार्तिकश्रेष्ठिपुङ्गवः ॥१२०॥ (१) दीक्षाम् । (२) ग्रहीतुकामः । (३) मेघजी । (४) इच्छति स्म । (५) मुनिसुव्रतस्वामिनः । (६) कार्तिकनामा श्रेष्ठी ॥१२०॥ स हीरसूरेः समागमं वाञ्छति स्म । यथा कार्तिकश्रेष्ठी श्रीसुव्रतस्वामिन आगमं वाञ्छति स्म ||१२|| विज्ञाय हीरसूरीन्दुराशयं मेघजीमुनेः । आगादहम्मदावादे माकन्दे कीरवत्क्रयात् ॥१२१॥ (१) ज्ञात्वा । (२) अभिप्रायम् । (३) आगतः । (४) सहकारे । (५) शुक इव ॥१२॥ श्रीहीरविजयसूरिरहम्मदावादनगरे आगच्छति स्म । यथा सहकारे कीरः समेति ॥१२२॥ 'प्राच्यामिव प्रतीच्यां स्व-महोऽभ्यधिकमांवहन् । 'परोक्षलक्षान्दधत्ताान्गृह्णन् ‘राज्ञां पुनः श्रियम् ॥१२२॥ 1. ॥१२२।। इति हीरविजयसूरेर्मेघजीऋषिदीक्षार्थमहम्मदावादागमनम् । हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy