SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः 'विनेया विनयावासाः कतिचित्ते मासते । शौण्डीरिमधरा गन्धसिन्धुरा इव बन्धुराः ॥१०॥ युग्मम् ।। (१) न नयनविषयः पारो यस्य । (२) शास्त्रस्य । (३) येषां प्रज्ञा । (४) नौरिव । (५) पारगामिनी ॥९॥ (१) शिष्याः । (२) विनीताः । (३) ते-गुणैर्विख्यातिभाजः । (४) सन्ति । (५) कर्मशत्रुसेनां प्रति शौर्यं धारिणः । (६) गन्धहस्तिनः ॥१०॥ अद । विने० । हे देवि ! ते विख्याताः कियन्तो मम शिष्याः सन्ति येषां प्रतिभा शास्त्रार्णवे सुखं यथा स्यात्तथा नौरिव पारगामिनी विद्यते ॥९-१०॥ मध्येऽमीषां विनेयानां 'कतमः 'कमलानने ! । ३भास्वान् विष्णोरिव पदे ममाऽस्त्येभ्युदयंगमी ॥११॥ (१) कः । (२) पद्मवक्त्रे ! (३) भानुः । (४) आकाशे । (५) उदयं गमिष्यतीति ॥११॥ यथाऽऽकाशे रविरुदयं गच्छति तथा को विनेयोऽभ्युदयं गमिष्यति इति त्वं ब्रूहि ॥११॥ "एवमालापिता तेन तं सुरी पुनरूचुषी । "प्रावृषेण्यमिवाऽम्भोदं नभोम्बुपनितम्बिनी ॥१२॥ (१) पूर्वोक्तप्रकारेण । (२) भाषिता (३) सूरिणा । (४) बभाषे । (५) वर्षाकालीनम् । (६) बप्पीहबालिका ॥१२॥ इत्थं पृष्टा सती सा तमिदं कथयति । यथा चातकी प्रावृण्मेघं कथयति ॥१२॥ १आस्ते श्रीजयविमलो यस्तेऽन्तेवासिवासवः । स ते दम्यो रथस्येव धुरं पट्टस्य धास्यति ॥१३॥ (१) वर्त्तते । (२) शिष्यशिरोमणिः । (३) वत्सतरः । प्रौढीभूतो वत्सः । (४) धुराधरणार्हः । (५) धारयिष्यति ॥१३॥ यस्तव शिष्यो जयविमलनाम्नाऽऽस्ते स पट्टधुराकर्षकः । यथा वत्सरो रथधुरं बिभर्ति ॥१३॥ त्वया विश्राणिता देव ! विधिना रेस्वपदेन्दिरा । "वाद्धिना विष्णुनेव श्रीश्चिरमेतेन रंस्यते ॥१४॥ (१) दत्ता । (२) भट्टारक ! । (३) निजपट्टलक्ष्मीः । (४) समुद्रेण ॥१४॥ हे देव ! हे भट्टारक ! त्वया सम्पद् दत्ता सा जयविमलप्रज्ञांसे(शे)न सह क्रीडिष्यति । यथाऽर्णवेन दत्ता श्रीविष्णुना सह रमते ॥१४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001449
Book TitleHirsundaramahakavyam Part 2
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy