SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ॥ यथा शास्त्रोक्तप्रकारेण सत्क्रिया क्रियमाणा शोभते, तद्वत् ॥१३॥ हीसुं० देशनां 'शमवतां शतमन्युः स प्रबोधयितुमङ्गिसमाजम् । प्रादिशद्वरयिता " वसतीनां कौमुदीमिव वनं कुमुदानाम् ॥१४॥ (१) मुनीनाम् । (२) शक्रः । ( ३ ) भव्यसभाम् । ( ४ ) भर्त्ता । (५) रात्रीणाम् । (६) चन्द्रिकाम् ॥१४॥ हील० देश० । साधूनामिन्द्रः भव्यसभां प्रतिबोधयितुं देशनां ददौ । यथा रात्रिकान्तश्चन्द्रः कुमुदवनं प्रतिबोधयितुं चन्द्रिकां प्रदिशति ||१४|| हीसुं० 'इन्द्रवारणमिवेयमसारा संसृतिः कृतदुरन्तविकारा । * पङ्किलावट इवात्र निमग्ना निर्गमेन भविनः प्रभवन्ति ॥ १५ ॥ ( १ ) कटुकफलम् । ( २ ) संसारः । (३) विहितः दुष्टोऽन्तोदु : खदमवसानं यस्य तादृग्विकारो - विकृतिर्यया । ( ४ ) कर्दमकलितकूपे । (५) ब्रूडिताः । ( ६ ) निर्गन्तुम् । (७) समर्थीभवन्ति ॥१५॥ हील० इन्द्र० । इयं संसृतिरिन्द्रवारणफलमिव रम्यातिकटुका, कृतः दुष्ट अन्ते विकारो यया, सास्ति । यथा पङ्किलकूपे पतिता न निर्गच्छन्ति संसृतौ पतिता अपि निर्गन्तुं न समर्थीभवन्ति ॥१५॥ हीसुं० 'नारकादिगतयोऽत्र चतस्रः संस्फुरन्त्यसुमतामिव पुर्यः । सन्ति भूपतिपथा इव लक्षा योनयश्चतुरशीतिरमूषु ॥१६॥ १४९ (१) नरक - तिर्यक् - मनुष्य - देवगति लक्षणा । ( २ ) प्राणिनां स्थातुं नगर्य: । ( ३ ) राजमार्गाः । (४) चतुरशीतिजीवयोनिलक्षाः ॥१६॥ हील० नारकादिगतयष्पु ( : पु)र्य इव सन्ति । पुरीषु राजमार्गाश्चतुरसी (शी ) तिलक्षा योनयो विद्यन्ते ॥ १६ ॥ हीसुं० ९मर्त्यजन्मनगरीम धिगत्य प्राणिनो भ्रमिवशेन कथंचित् । “दर्शनादिवरवस्त्वनवाप्तेरायुरेव धनवत् पयन्ति ॥१७॥ (१) मनुष्ययोनिनामपुरीम् । (२) प्राप्य । (३) भवपरिभ्रमणप्रकारेण । ( ४ ) महता कष्टेन । (५) सम्यक्त्वप्रमुखविशिष्टपदार्थानामलाभात् । ( ६ ) निष्ठापयन्ति ॥ १७॥ हील० मर्त्यभवमासाद्य रत्नत्रयानवाप्तेर्जना नीवीद्रव्यमिव आयुः क्षपयन्ति ॥ १७॥ हीसुं० निर्गतायुरखिलद्रविणास्ते रङ्गवन्न रकवर्त्म भजन्तः । "हा दुरागतदशा "अशरण्या 'नित्यदुःखमनुभूय म्रियन्ते ॥ १८ ॥ ( १ ) निष्ठापितनिखिलजीवितद्रव्याः । (२) द्रमका इव । (३) नारकमार्गम् । ( ४ ) श्रयन्तः । (५) हा इति खेदे । ( ६ ) दुष्टा निन्द्या समेता अवस्था येषाम् । ( ७ ) शरणरहिताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy