SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ 259 श्रीआचारावृत्तिः (शी) भाषैव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावी शब्दरयावेदिताविति ॥ इदानी चतसृणा भाषाणामभाषणीयामाह-स भिक्षुर्या पुनरेवं जानीयात्, तद्यथा-सत्यां १ मृषां २ सत्यामृषाम् ३ असत्यामृषां ४, तत्र मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्यापि या कर्कशादिगुणोपेता सा न वाच्या, तां च दर्शयति-सहावयेन वर्सत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रियया-अनर्थदण्डप्रवृत्तिलक्षणया वर्तत इति सक्रिया तामिति तथा 'कर्कशां चार्वताक्षरां तथा 'कटुकां' चित्तोद्वेगकारिणी तथा 'निष्ठुरां' हक्काप्रधानां 'परुषां' मर्मोद्घाटनपराम् | 'अण्हयकरि'न्ति कर्माश्रवकरीम्, एवं छेदनभेदनकरी यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनी' प्राण्युपतापकारिणीम् 'अभिकाजन्य' मनसा पर्यालोच्य सत्यामपि न भाषेतेति ॥ भाषणीयां त्वाह-स भिक्षुर्या पुनरेवं जानीयात् , तद्यथा-या च भाषा सत्या 'सूक्ष्मेति कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने लुब्धकादेरपलाप इति, उक्तश्च-"अलिअंन भासिअव्वं अस्थि हु सच्चपि जं न वत्तव्वं । सच्चंपि होइ अलिअं जं | परपीडाकरं वयणं ।। १॥" या चासत्यामृषा-आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपघातिनी मनसा पूर्वम् 'अभिकासच' पर्यालोच्य सर्वदा सानुर्भाषां भाषेतेति ॥ किञ्च से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइजा-होलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्खेत्ति वा घडदासित्ति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसावाइत्ति वा, एयाई तुम ते जणगा वा, १ अलीकंन भाषितव्यं अस्त्येव सत्यमपि यत्र वक्तव्यम् । सत्यमपि भवत्यलीकं यत् परपीडाकर वचनम् ॥ १॥ एअप्पगारं भासं सावज सकिरियं जाव भूओवधाइयं अभिकंख नो भासिज्जा ॥ से भिक्खू वा० पुमं आमंतेमाणे आमं- श्रुतस्कं०२ तिए वा अप्पडिसुणेमाणे एवं वइजा-अमुगे इ वा आउसोत्ति वा आउसंतारोत्ति वा सावगेत्ति वा उवासगेत्ति वा ध चूलिका १ म्मिएत्ति वा धम्मपिएत्ति वा, एयप्पगार भासं असावजं जाव अमिकख भासिज्जा ।। से भिक्ख वा २ इस्थि आमंतेमाणे भाषा०४ आमंतिए य अप्पडिसुणेमाणे नो एवं वइजा होली इ वा गोलीति वा इत्थीगमेणं नेयव्वं ॥ से भिक्खू वा २ इत्थि | उद्देशः १ आमंतेमाणे आमंतिए य अप्पडिसुणेमाणी एवं वइज्जा-आउसोत्ति वा भइणित्ति वा भोईति वा भगवईति वा साविगेति वा उवासिएत्ति वा धम्मिएत्ति वा धम्मप्पिएत्ति वा, एयप्पगारं भासं असावनं जाव अभिकंख भासिज्जा ।। (सू० १३४) स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तं नैवं भाषेत, तद्यथा-होल इति वा गोल इति वा, एतौ च देशान्तरेऽवज्ञासंसूचकी, तथा 'वसुले'त्ति वृषलः 'कुपक्षः' कुत्सितान्वयः घटदास इति वा श्वेति वा स्तेन इति वा चारिक इति वा मायीति वा मृषावादीति वा, इत्येतानि-अनन्तरोक्तानि त्वमसि तव जनको वा-मातापितरावेतानीति, एवंप्रकारां भाषां यावन्न भाषेतेति ॥ एतद्विपर्ययेण च भाषितव्यमाह-स भिक्षुः पुमांसमामन्त्रयन्नामन्त्रितं वाऽशृण्वन्तमेवं ब्रूयाद् यथाऽमुक इति वा आयुष्मन्निति वा आयुष्मन्त इति वा तथा श्रावक धर्मप्रिय इति, एवमादिकां भाषां भाषेतेति ॥ एवं स्त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति ॥ पुनरप्यभाषणीयामाह से भि० नो एवं वइजा-नभोदेवित्ति वा गज्जदेवित्ति वा विज्जुदेवित्ति वा पबुट्ठदे० निवुट्ठदेवित्तए वा पडउ वा वासं मा वा पडउ निष्फजउ वा सस्सं मा वा नि० विभाउ वा रयणी मा वा विभाउ उदेउ वा सूरिए मा वा उद्देउ सो वा राया जयउ वा मा जयउ, नो एयप्पगारं भासं भासिज्जा ॥ पन्नवं से भिक्खू वा २ अंतलिक्खेत्ति वा गुज्झाणुचरिएत्ति वा संमुच्छिए वा निवइए वा पओ वइज्जा वुटबलाहगेत्ति वा, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गिय जं स व्वद्वेहिं समिए सहिए सया जइज्जासि त्तिबेमि २-१-४-१॥ भाषाध्ययनस्य प्रथमः ॥ (सू० १३५) । स भिक्षुरेवंभूतामसंयतभाषां न वदेत् , तद्यथा-नभोदेव इति वा गर्जति देव इति वा तथा विद्युदेवः प्रवृष्टो देवः। निवृष्टो देवः, एवं पततु वर्षा मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत ॥ कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्यमिति ॥ चतुर्थस्य प्रथमोद्देशकः समाप्तः २-१-४-१॥ ॥३८८॥ RCMCALMAANMAAAAAACAR-ACAMACACANC945445440 उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके वाच्यावाच्यविशेषोऽभि1 हितः, तदिहापि स एव शेषभूतोऽभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् से भिक्खू वा जहा वेगईयाई रूवाई पासिज्जा तहानि ताई नो एवं वइजा, तंजहा-ांडी गंडीति वा कुट्टी कुट्ठीति वा जाव महुमेहुणीति वा हत्यच्छिन्नं हत्यच्छिन्नेत्ति वा एवं पायछिन्नेत्ति वा नकछिण्णेइ वा कण्णछिन्नेह वा उट्ठछिन्नेति वा, जेयावन्ने तहप्पगारा एयप्पगाराहिं भासाहि बुझ्या २ कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001423
Book TitleAcharangasutram Sutrakrutangsutram Cha
Original Sutra AuthorN/A
AuthorSagaranandsuri, Anandsagarsuri, Jambuvijay
PublisherMotilal Banarasidas
Publication Year1978
Total Pages764
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, agam_acharang, & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy