SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । आमन्त्र्यार्थवृत्तेराबन्तस्य सिना सह ए: स्यात् । हे माले !, हे बहुराजे ! ॥४२॥ नित्यदिद्-द्विस्वराम्बार्थस्य ह्रस्वः | १|४ |४३|| नित्यं दित् दै-दास्-दास्-दामादेशो येभ्यः तेषां द्विस्वराम्बार्थानां चाऽऽबन्तानामामन्त्र्यवृत्तीनां सिना सह ह्रस्वः स्यात् । हे स्त्रि ! । हे लक्ष्मि ! | हे श्वश्रु ! | हे वधु ! | हे अम्ब ! | हे अक्क ! | नित्यदिद् इति किम् ? हे हूहूः ! | द्विस्वरेति किम् ? हे अम्बाडे ! | आप इत्येव, हे मातः ! ||४३|| अदेतः स्यमोर्लुक् | १|४|४४॥ अदन्तादेदन्ताच्चामन्त्र्यवृत्तेः परस्य सेरमश्च लुक् स्यात् । हे देव ! | हे उपकुम्भ ! | हे अतिहे ! ||४४|| दीर्घङया - व्यञ्जनात् सेः | १|४|४५ ॥ १९ दीर्घङयाबन्ताभ्यां व्यञ्जनाच्च परस्य सेर्लुक् स्यात् । नदी । माला । राजा । दीर्घेति किम् ? निष्कौशाम्बिः । निर्दुर्बहिराविः प्रादुश्चतुराम् [२|३|९ ] इति ष: । अतिखः ||४५|| समानादमोऽतः | १|४|४६ ॥ समानात् परस्याऽमोऽस्य लुक् स्यात् । देवम् । मालाम् । मुनिम् । नदीम् । साधुम् । वधूम् ॥४६॥ दीर्घो नाम्यतिसृ- चतसृ-ष्-रः । १।४।४७।। नुः समानस्य नामि परे दीर्घो वा स्यात् । नृणाम् । नृणाम् ||४८|| शसोडता, सश्व नः पुंसि | १|४ |४९ ॥ - तिसृ-चतसृ-ष-रान्तवर्जस्य समानस्य नामि परे दीर्घः स्यात् । नानाम् । मुनीनाम् । साधूनाम् । पितॄणाम् । अतिसृ चतसृ ष् र इति किम् ? तिसृणाम् । चतसृणाम् । षण्णाम् । चतुर्णाम् ||४७|| नुर्वा | १|४ |४८ ॥ Jain Education International सोता सह पूर्वसमानस्य दीर्घः स्यात्, तत्सन्नियोगे च पुंसि शसः सो नः । देवान् । वातप्रमीन् । साधून् । हूहून् । पितॄन् । पुंसीति किम् ? शाला: ॥४९॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy