SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [प्रथमाध्याये चतुर्थ: पाद:] अत आः स्यादौ जस्-भ्याम्-ये ।।४।१॥ स्यादौ जसि भ्यामि ये च परेऽकारस्य आ: स्यात् । देवाः । आभ्याम् । सुखाय । स्यादौ इति किम् ? बाणान् जस्यति, विप्, बाणज: ।।१।। भिस ऐस् ।१४।२॥ आत् परस्य स्यादेर्भिस ऐस् स्यात् । देवैः । ऐस्करणाद् अतिजरसैः ।।२।। इदमदसोऽक्येव ।।४॥३॥ इदमदसोरक्येव सति आत् परस्य भिस ऐस् स्यात् । इमकैः । अमुकैः । अक्येव इति किम् ? एभिः । अमीभिः ॥३॥ एद् बहुस्भोसि ।।४।४॥ बह्वर्थे स्यादौ सादौ भादौ ओसि च परे अत एत् स्यात् । एषु । एभिः । देवयोः ।।४।। टा-ङसोरिन-स्यौ।१।४।५॥ आत् परयो: टाङसोर्यथासङ्ख्यं इन-स्यौ स्याताम् । तेन । यस्य ||५|| __ डे-ङस्योर्या-ऽऽतौ ।१।४।६॥ आत् परस्य डेर्डसेश्च यथासङ्ख्यं य आच स्याताम् । देवाय । देवात् ।।६।। सर्वादेः स्मै-स्मातौ ।।४॥७॥ सर्वादेरदन्तस्य सम्बन्धिनौ डे-डस्योर्यथासङ्ख्यं स्मै-स्मातौ स्याताम् । सर्वस्मै । सर्वस्मात् । सर्व विश्व उभ उभयट अन्य अन्यतर इतर डतर डतम त्व त्वत् नेम । सम-सिमौ सर्वार्थौ । पूर्व-परा-ऽवर-दक्षिणोत्तरा-ऽपरा-ऽधराणि व्यवस्थायाम् । स्वमज्ञाति-धनाख्यायाम् । अन्तरं बहिर्योगोपसंव्यानयोरपुरि । त्यद् तद् यद् अदस् इदम् एतद् एक द्वि युष्मद् भवन्तु अस्मद् किम् इति असंज्ञायां सर्वादिः ।।७।। ः स्मिन् ॥१४॥८॥ सर्वादेरदन्तस्य डे: स्मिन् स्यात् । सर्वस्मिन् ।।८।। जस इः ।।४॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy