SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एषामृत इम्नि ण्यादौ च र: स्यात् । प्रथिमा, प्रथयति, प्रथिष्ठः, प्रथीयान् ; एवं प्रदिमा, भ्रशिमा, क्रशिमा, द्रढिमा, परिवढिमा ।।९।। बहोष्ठेि भूय् ।॥४॥४०॥ भूययति, भूयिष्ठः ॥१०॥ भूलृक् चेवर्णस्य ।७।४।४१॥ बहोरीयंसाविम्नि च भू: स्यात्, लुक् चाऽनयोरिवर्णस्य । भूयान्, भूमा ।।११।। त्रन्त्यस्वरादेः ।७४॥४३॥ तुरन्त्यस्वरादेश्वांशस्येम्नि ण्यादौ च लुक् स्यात् । करयति, करिष्ठः, करीयान् ; पटिमा, [पटयति,] पटिष्ठः, पटीयान् ।।१२।। नैकस्वरस्य ।७।४।४४॥ एकस्वरस्य योऽन्त्यस्वरादिरंश: तस्येम्नि ण्यादौ च लुग् न स्यात् । स्रजयति, स्रजिष्ठः, स्रजीयान् ।।१३।। ईनेऽध्वा-ऽऽत्मनोः ।७४।४८॥ अन्त्यस्वरादेलुंग न स्यात् । अध्वनीन:, अध्वानं येनौ [७/१।१०३]इतीन: | आत्मनीन: ।।१४।। अनोऽटये ये।४॥५१॥ अन्नन्तस्य ट्यवर्जे यादावन्त्यस्वरादेलृग् न स्यात् । सामन्यः । अट्य इति किम् ? राज्यम् ।।१५।। अणि ७४॥५२॥ अन्नन्तस्याऽणि अन्त्यस्वरादेर्लुग् न स्यात् । सौत्वनः ॥१६।। संयोगादिनः ।७।४।५३॥ संयोगात् परो य इन्, तदन्तस्याऽण्यन्त्यस्वरादेलुंग न स्यात् । शाङ्खिनः।।१७|| अनपत्ये ७४॥५५॥ इन्नन्तस्यानपत्यार्थेऽण्यन्त्यस्वरादेर्लुग् न स्यात् । सांराविणम् ।।१८।। उक्ष्णो लुक् ॥४॥५६॥ उक्ष्णोऽनपत्येऽण्यन्त्यस्वरादे क् स्यात् । औक्षं पक्ष(द)म् । अनपत्य इत्येव, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy