SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [सप्तमाध्याये तृतीयः पादः ] प्रकृते मयट् | ७|३|१|| प्राचुर्येण प्राधान्येन वा कृतं प्रकृतम्, तदर्थात् स्वार्थे मयट् स्यात् । अन्नमयम्, पूजामयम् ||१|| अस्मिन् |७|३|२|| प्रकृतार्थादस्मिन्निति विषये मयट् स्यात् । अपूपमयं पर्व ||२|| तयोः समूहवच्च बहुषु |७|३|३॥ प्रकृतेऽस्मिन्निति च विषययोर्बह्वर्थात् समूह इव प्रत्ययः स्यात्, मयट् च । अ(आ)पूपिकम्, अपूपमयम्, अपूपास्तत्पर्व वा ॥ ३ ॥ निन्द्ये पाशप् |७|३|४॥ निन्द्या[र्था]त् स्वार्थे पाशप् स्यात् । छान्दसपाशः ||४|| प्रकृष्टे तमप् ।७।३।५। प्रकृष्टार्थात् तमप् स्यात् । शुक्लतमः, कारकतमः ||५|| द्वयोर्विभज्ये च तरप् ॥७|३|६॥ द्वयोर्मध्ये प्रकृष्टे विभज्ये च प्रकृष्टे वर्त्तमानात् तरप् स्यात् । पटुतरा स्त्री, साङ्काश्यकेभ्यः पाटलिपुत्रका आढचतराः ||६|| २०१ क्वचित् स्वार्थे |७|३|७|| यथालक्ष्यं स्वार्थेऽपि तरप् स्यात् । अभिन्नतरकम्, उच्चैस्तराम् ||७|| किं- त्याद्ये ऽव्ययादसत्त्वे तयोरन्तस्याऽऽम् | ७|३|८|| किमस्त्याद्यन्तादेदन्तादव्ययाच्च परयोस्तमप्-तरपोरन्तस्याऽऽम् स्यात्, न चेत् तौ सत्त्वे द्रव्ये वर्त्तेते । किन्तमाम् किन्तराम् पचतितमाम्, पचतितराम् ; पूर्वाह्णेतरां भुङ्क्ते, पूर्वाह्णेतमाम्, अतितराम्, अतितमाम् । [ अ ] सत्त्व इति किम् ? + + किन्तरं दारु ||८|| ; गुणाङ्गाद् वेष्ठेयंसौ (सू) |७|३|९|| - Jain Education International गुणप्रवृत्तिहेतुकात् तमप्-तरपोर्विषये यथासंख्यमेतौ वा स्याताम् । पटिष्ठः, पटुतमः ; गरीयान्, गुरुतरः ||९|| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy