SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्यात्, इष्टं प्राशित्रादि, + अनिष्टं श्राद्धादि । ग्रामे बहुशो ददति, एवं भूरिशः, अल्पमल्पशो वा धनं दत्ते श्राद्धे, एवं स्तोकश: । इष्टानिष्ट इति किम् ? बहु दत्ते श्राद्धे, अल्पं प्राशित्रे || ४५ || तयाट्टीकण न विद्या चेत् |७|२|१५३॥ तीयान्तादविद्यार्थात् स्वार्थे टीकण् वा स्यात् । द्वितीयम्, द्वैतीयकम् । विद्या द्वितीया ||४६ || प्रायोऽन्तोर्द्वयसट्-मात्रट् ।७।२।१५५॥ अन्त्वन्तात् स्वार्थे एतौ स्याताम्, यावल्लक्ष्यम् । यावद्वयसम्, यावन्मात्रम् ||४७|| वर्णा - sव्ययात् स्वरूपे कारः |७|२|१५६॥ एभ्यः स्वरूपार्थेभ्यः कारो वा स्यात् । अकार:, ॐकारः । स्वरूप इति किम् ? अ: विष्णुः || ४८|| रादेफः |७|२|१५७| वा स्यात् । रेफः । प्रायोऽधिकाराद् रकारः || ४९|| 1 । नाम-रूप-भागाद् धेयः | ७|२| १५८ ।। एभ्यः स्वार्थे धेयो वा स्यात् । नामधेयम्, रूपधेयम्, भागधेयम् ॥५०॥ मर्तादिभ्यो यः | ७|२।१५९॥ मर्त्यः, सूर्यः ||५१|| नवादीन-तन-त्नं च नू चास्य ।७।२।१६०॥ नवात् स्वार्थे एते यश्च वा स्युः, तद्योगे च नवस्य नूः । नवीनम्, नूतनम्, नूत्नम्, नव्यम् ॥५२॥ १९९ प्रात् पुराणे नश्च । ७।२।१६१॥ पुराणार्थात् प्रात् [न] ईन-तन - त्नाश्च स्युः । प्रणम्, [ प्रीणम् ] प्रतनम्, प्रत्नं पुराणम् ||५३|| Jain Education International देवात् तल् ।७।२।१६२॥ स्वार्थे वा स्यात् । देवता ॥ ५४|| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy