SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १८२ स्वोपज्ञरहस्यवृत्तिविभूषितं प्रावृष इकः ।६।३।९९॥ अस्मात् सप्तम्यन्ताज्जाते इक: स्यात् । प्रावृषिक: ।।३३।। पूर्वाह्ला-ऽपराह्ला-ऽऽर्द्रा-मूल-प्रदोषा-ऽवस्करादकः ।६।३।१०२॥ एभ्य: सप्तम्यन्तेभ्यो जातेऽको नाम्नि स्यात् । पूर्वाह्नकः, अपराह्णकः, आर्द्रक:, मूलक:, प्रदोषक:, अवस्करकः ।।३४॥ सोदर्य-समानोदयौँ ।६।३।११२॥ एतौ जातेऽर्थे यान्तौ निपात्येते । सोदर्यः, समानोदर्यो भ्राता ।।३।। कालाद् देये ऋणे ।६।३।११३॥ सप्तम्यन्तात् कालार्थाद् देये ऋणेऽर्थे यथाविहितं प्रत्यय: स्यात् । मासिकमृणम् ।।३६।। उप्ते ।६।३।११८॥ सप्तम्यन्तात् कालार्थादुप्तेऽर्थे यथाविहितं प्रत्यय: स्यात् । शारदा यवा:, हैमना: ||३७|| ___ व्याहरति मृगे।६।३।१२१॥ सप्तम्यन्तात् कालार्थाद् व्याहरति मृगेऽर्थे यथाविहितं प्रत्यय: स्यात् । नैशिको . नैशो वा शृगालः, प्रादोषिक: प्रादोषो वा । मृग इति किम् ? वसन्ते व्याहरति कोकिल: ॥३८॥ जयिनि च ।६।३।१२२॥ सप्तम्यन्तात् कालार्थाज्जयिन्यर्थे यथाविहितं प्रत्यय: स्यात् । निशाभवमध्ययनं निशा, तत्र जयी नैशिकः, नैश:, प्रादोषिक:, प्रादोषः, वार्षिक: ॥३९|| भवे ।६।३।१२३॥ __ सप्तम्यन्ताद् भवेऽर्थे यथासंभवमणेयणादय: स्युः । स्रौनः, औत्सः, नादेय:, ग्राम्यः ॥४०॥ दिगादिदेहांशाद् यः ।६।३।१२४॥ दिगादेदेहावयवार्थाच्च सप्तम्यन्ताद् भवे य: स्यात् । दिश्यः, अप्सव्य:, मूर्धन्यः ||४१|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy