SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ वक्ष्यमाणोऽणादिस्तद्धितः स्यात् ||| १ || श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [अथ षष्ठोऽध्यायः ] [ प्रथमः पादः ] तद्धितोऽणादिः | ६ |१|१|| असौ पौत्रादि वृद्धम् |६|१|२|| परमप्रकृतेर्यत् पौत्रादि अपत्यं तद् वृद्धं स्यात् । गार्ग्यः, पुत्रस्तु गार्गिः ||२|| संज्ञा दुर्वा |६|१|६॥ हठात् संज्ञा दुर्वा स्यात् । देवदत्तीयाः, दैवदत्ताः ||३|| त्यदादिः | ६|१|७|| दुः स्यात् । त्यदीयम्, तदीयम् ||४|| वृद्धिर्यस्य स्वरेष्वादिः | ६|१|८|| यस्य स्वराणामादिः स्वरो वृद्धिः स दुः स्यात् । शालीयः ||५|| वा-ऽऽद्यात् ।६।१।११॥ १७१ वेति आद्यादिति च द्वयमधिकृतं स्यात् तेन तद्धितप्रसङ्गे पक्षे वाक्यसमासावपि, सूत्रादौ च निर्दिष्टात् प्रत्ययः ||६|| प्राग् जितादण् | ६ | १|१३॥ · प्रागू जितोक्तेः पादत्रयं यावद् येऽर्थास्तेष्वण् वा स्यात् । औपगवः, माञ्जिष्ठम् ||७| अनिदम्यणपवादे च दित्यदित्यादित्य-यम- पत्युत्तरपदाञ्ज्यः Jain Education International |६|१|१५| एभ्यः प्राजितीयेऽर्थे इदंवर्जेऽपत्याद्यर्थे योऽणोऽपवादस्तद्विषये च ञ्यः स्यात् । दैत्यः, आदित्यः, आदित्य्यः, याम्यः, बार्हस्पत्यः ||८|| द्विगोरनपत्ये य-स्वरादेर्लुबद्विः | ६ | १|२४|| अपत्यादन्यस्मिन् प्राग्जितीयेऽर्थे भूतस्य द्विगोः परस्य यादेः स्वरादेश्च प्रत्ययस्य लुप् स्यात्, न तु द्विः । द्विरथः, पञ्चकपालः | अनपत्य इति किम् ? पाञ्चनरिः | अद्विरिति किम् ? पाञ्चकपालम् ||९|| प्राग् वत: स्त्री-पुंसात् नञ् - स्नञ् । ६।१।२५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy