SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १६८ स्वोपज्ञरहस्यवृत्तिविभूषितं चर्मोदरात् पूरेः ।५।४।५६॥ आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्थात् पूरयतेर्धातो: सम्बन्धे णम् वा स्यात् । चर्मपूरमास्ते, उदरपूरं शेते ।।३३।। वृष्टिमान ऊलुक् चास्य वा ।५।४।५७॥ व्याप्यात् परात् पूरयतेर्धातो: सम्बन्धे णम् वा स्यात्, पूरयतेरूतो लुक् च वा, समुदायेन वृष्टीयत्ताऽवग[म्य]ते । गोष्पदप्रम्, गोष्पदपूरं वा वृष्टो मेघः ॥३४॥ शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव ।५।४।६०॥ एभ्यो व्याप्येभ्य: परात् पिशूर्णम् वा स्यात्, तस्यैव धातो: सम्बन्धे । शुष्कपेषं पिनष्टि, एवं चूर्णपेषम्, रूक्षपेषम् ।।३५।। कृग्-ग्रहोऽकृत-जीवात् ।५।४।६१॥ आभ्यां व्याप्याभ्यां पराद् यथासङ्ख्यं कृगो ग्रहेश्च तस्यैव सम्बन्धे णम् वा स्यात् । अकृतकारं करोति, जीवग्राहं गृह्णाति ।।३६।। निमूलात् कषः ।५।४।६२॥ निमूलाद् व्याप्यात् परात् कषेस्तस्यैव सम्बन्धे णम् वा स्यात् । निमूलकाषं कषति, निमूलस्य काषं कषति ॥३७॥ हनश्च समूलात् ।५।४।६३॥ समूला व्याप्यात् पराद् हन्ते: कषेश्च तस्यैव सम्बन्धे णम् वा स्यात् । समूलघातं हन्ति, समूलकाषं कषति ।।३८।। ___ करणेभ्यः ।५।४।६४॥ करणार्थाद् पराद् हन्तेस्तस्यैव सम्बन्धे णम् वा स्यात् । पाणिघातं कुड्यमाहन्ति ॥३९॥ स्व-स्नेहनार्थात् पुष-पिषः ।५।४॥६५॥ स्वशब्दार्थात् स्नेहनार्थाच्च करणार्थात् पराद् यथासङ्ख्यं पुष: पिषश्च तस्यैव सम्बन्धे णम् वा स्यात् । स्वपोषं पुष्णाति, एवम् आत्मपोषम् । उदपेषं पिनष्टि, एवं क्षीरपेषम् ।।४०।। बन्धेर्नाम्नि ।।४।६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy