SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगंसीष्ट || ५० || स्त्रोः ||४|४|५२|| १३० स्नोः परस्य स्ताद्यशितोऽनात्मनेपदे आदिरिट् स्यात् । प्रस्नविष्यति । अनात्मन इत्येव, प्रास्नोष्ट ॥५१॥ क्रमः |४|४|५३॥ क्रमः परस्य स्ताद्यशित आदिरिट् स्यात्, अनात्मनेपदे । क्रमिष्यति, प्रक्रमितुम् । अनात्मन इत्येव प्रक्रंस्यते ॥ ५२ ॥ " तुः |४|४|५४ || अनात्मनेपदविषयात् क्रमः परस्य तुः स्ताद्यशित आदिरिट् स्यात् । क्रमिता । अनात्मन इत्येव, प्रक्रन्ता ॥ ५३ ॥ न वृद्भ्यः | ४|४|५५ ॥ वृदादिपञ्चकात् [परस्य] स्ताद्यशित आदिरिड् न स्यात्, नचेदसावात्मनेपदनिमित्तम् । वर्त्स्यति, विवृत्सति ; स्यन्त्स्यति, सिस्यन्त्सति ॥५४ || एकस्वरादनुस्वारेतः | ४|४|५६ ॥ एकस्वरादनुस्वारेतो धातोर्विहितस्य स्ताद्यशित आदिरिट् न स्यात् । पाता । एकस्वरादिति किम् ? अवधीत् ||५५ || ॠवर्ण - श्रूयूणुगः कितः | ४|४|१७|| ऋवर्णान्ताद् धातोः श्रेरुपर्णोश्व एकस्वराद् विहितस्य कित आदिरिटू न स्यात् । वृतः, तीर्त्वा, श्रितः, ऊर्णुत्वा । एकस्वरादित्येव, जागरितः । कित इति किम् ? वरा ||५६ || उवर्णात् ।४|४|५८।। उवर्णान्तादेकस्वराद् विहितस्य कित आदिरिट् न स्यात् । युतः, लूनः ||५७|| ग्रह- गुहश्च सनः |४|४|५९॥ आभ्यामुवर्णान्ताच्च विहितस्य सन आदिरिट् न स्यात् । जिघृक्षति, जुघुक्षति, रुरूषति ||५८|| स्वार्थे |४|४|६०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy