SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १०२ किम् ? निजुगुहुः ||२७|| स्वोपज्ञरहस्यवृत्तिविभूषितं भुवो वः परोक्षा- sद्यतन्योः |४| २|४३|| भुवो वन्तस्योपान्त्यस्य परोक्षा -ऽद्यतन्योरूत् स्यात् । बभूव, अभूवम् । व इति किम् ? बभूवान्, अभूत् ||२८|| गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक् |४|२|४४|| एषामुपान्त्यस्याङ्वर्जे स्वरादौ क्ङिति परे लुक् स्यात् । जग्मुः, जघ्नुः, जज्ञे, चख्नुः, जक्षुः । स्वर इति किम् ? गम्यते । अनङीति किम् ? अगमत् । क्ङितीति किम् ? गमनम् ||२९|| नो व्यञ्जनस्याऽनुदितः |४| २|४५ || व्यञ्जनान्तस्याऽनुदितो धातोरुपान्त्यस्य नः क्ङिति परे लुक् स्यात् । स्रस्तः, सनीस्रस्यते । व्यञ्जनस्येति किम् ? नीयते । अनुदित इति किम् ? नानन्द्यते ||३०|| अञ्चोऽनर्चायाम् ||४|२|४६॥ । अनर्चार्थस्यैवाञ्चेरुपान्त्यनो लुक् स्यात् । उदक्तमुदकं कूपात् । अनर्चायामिति किम् ? अञ्चिता गुरवः ||३१|| भ वा |४| २|४८॥ भञ्जेरुपान्त्यनो ञौ लुग् वा स्यात् । अभाजि, अभञ्जि ||३२|| दंश - सञ्जः शवि | ४|२|४९॥ अनयोरुपान्त्यनः शवि लुक् स्यात् । दशति, सजति ||३३|| अकट्- घिनोश्च रञ्जेः ॥४२॥५०॥ रञ्जेरकटि घिनणि शवि चोपान्त्यनो लुक् स्यात् । रजकः, रागी, रजति 113811 Jain Education International णौ मृगरम |४| २|५१॥ रञ्जेरुपान्त्यनो णौ मृगाणां रमणेऽर्थे लुक् स्यात् । रजयति मृगं व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् ||३५|| aft भाव करणे | ४|२|५२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy