SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ९६ स्वोपज्ञरहस्यवृत्तिविभूषितं स्फातवान् ।।८०|| प्रसमः स्त्यः स्ती।४।११९५॥ प्रसम्समुदायपूर्वस्य स्त्यः क्तयोः परयोः स्ती: स्यात् । प्रसंस्तीतः, प्रसंस्तीतवान् । प्रसम इति किम् ? संप्रस्त्यानः ||८१।। प्रात् तश्च मो वा ।४।१।९६॥ प्रात् केवलात् परस्य स्त्य: क्तयो: परयोः स्ती: स्यात्, क्तयोस्तो म् च वा । प्रस्तीत:, प्रस्तीतवान् । प्रस्तीम:, प्रस्तीमवान् ।।८२।। श्यः शी द्रवमूर्ति-स्पर्शे नश्वाऽस्पर्शे ।४।१९७॥ मूर्तिः काठिन्यम्, द्रवमूर्ति-स्पर्शार्थस्य श्य: क्तयोः परयो: शी: स्यात्, तद्योगे क्तयोस्तोऽस्पर्शविषये न् च । शीनम्, शीनवद् घृतम्, शीतं वर्त्तते, शीतो वायु: ।।८३।। प्रतेः ।४।१।९८॥ प्रते: परस्य श्य: क्तयोः परयोः शी: स्यात्, तद्योगे क्तयोः तो न् च । प्रतिशीन:, प्रतिशीनवान् ।।८४।। श्रः शृतं हविः-क्षीरे ।४।११००॥ श्रातेः श्रायतेश्च क्ते हविषि क्षीरे चार्थे शृर्निपात्यते । शृतं हविः, शृतं क्षीरं स्वयमेव । हवि:-क्षीर इति किम् ? श्राणा यवागू: ।।८५|| वृत् सकृत् ।४।१।१०२॥ अन्तस्थास्थानम् इ-उ-ऋत् सकृदेव स्यात् । संवीयते ।।८६।। दीर्घमवोऽन्त्यम् ।४।१।१०३॥ वेग्वर्जस्य य्वृदन्त्यं दीर्घ स्यात् । जीन: । अव इति किम् ? उतः । अन्त्यमिति किम् ? सुप्तः ।।८७|| स्वर-हन-गमोः सनि धुटि ।४।१।१०४॥ स्वरान्तस्य हन्-गमोश्च धुडादौ सनि दीर्घः स्यात् । चिचीषति, जिघांसति, जिगांस्यते । धुटीति किम् ? यियविषति ।।८८|| तनो वा ।४।११०५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy