SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । स्तम्भू-स्तम्भू-स्कम्भू-स्कुम्भू-स्कोः ना च ।३।४।७८॥ स्तम्भ्वादेः सौत्राद् धातोः, स्कुगश्च कर्तृविहिते शिति इना: इनुश्च स्यात् । स्तनाति, ++ स्तनोति ; स्तुध्नाति, स्तुध्नोति ; स्कनाति, स्कनोति ; स्कुनाति, स्कुघ्नोति ; स्कुनाति, स्कुनोति ।।७४।। क्रयादेः ॥३॥४॥७९॥ क्रयादेः कर्तृविहिते शिति श्ना स्यात् । क्रीणाति, प्रीणाति ॥७५।। व्यञ्जनाच्छ्नाहेरानः ।३।४।८०॥ व्यञ्जनात् परस्य श्रायुक्तस्य हे: आनः स्यात् । पुषाण । व्यञ्जनादिति किम् ? लुनीहि ।।७।। तुदादेः शः ।३।४।८१॥ एभ्य: कर्तृविहिते शिति श: स्यात् । तुदति, तुदते ।।७७|| रुधां स्वराच्झनो नलुक् च ।३।४।८२॥ रुधादीनां स्वरात् पर: कर्तृविहिते शिति श्नः स्यात्, तद्योगे च प्रकृते! लुक् । रुणद्धि, हिनस्ति ।।७८।। कृग्-तनादेरुः ।३।४।८३॥ कृगस्तनादिभ्यश्च कर्तृविहिते शिति उ: स्यात् । करोति, तनोति ॥७९।। सृजः श्राद्धे त्रि-क्या-ऽऽत्मने तथा ।३।४।८४॥ सृजः पराणि श्रद्धावति कर्तरि त्रि-क्या-ऽऽत्मनेपदानि स्युस्तथा यथा विहितानि । असर्जि, सृज्यते, स्रक्ष्यते वा मालां धार्मिकः । श्राद्ध इति किम् ? व्यत्यसृष्ट माले मिथुनम् ।।८०।। एकधातौ कर्मक्रिययैकाऽकर्मक्रिये ।३।४।८६॥ एकस्मिन् धातौ कर्मस्थक्रियया पूर्वदृष्टया एका अभिन्ना सम्प्रत्यकर्मिका क्रिया यस्य तस्मिन् कर्तरि कर्मकर्तृरूपे धातोर्जि-क्या-ऽऽत्मनेपदानि स्युः । अकारि क्रियते करिष्यते वा कट: स्वयमेव । एकधाताविति किम् ? पचत्योदनं चैत्र:, सिध्यत्योदन: स्वयमेव । कर्मक्रिययेति किम् ? साध्वसिश्छिनत्ति । एकक्रिय इति किम् ? स्रवत्युदकं कुण्डिका, अकर्मक्रिय इति किम् ? भिद्यमान: कुशूल: पात्राणि भिनत्ति ।।८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy