SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ७० स्वोपज्ञरहस्यवृत्तिविभूषितं उत्तरपदे परे नञ् अत् स्यात् । अचौरः पन्थाः । उत्तरपद इत्येव, न भुते अन् स्वरे ।३।२।१२९॥ स्वरादावुत्तरपदे नञोऽन् स्यात् । अनन्तो जिनः ॥४६॥ कोः कत् तत्पुरुषे ।३।२।१३०॥ स्वरादाबुत्तरपदे कोंस्तत्पुरुषे कत् स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः । स्वर इत्येव, कुब्राह्मणः ॥४७|| काऽक्ष-पथोः ।३।२।१३४॥ अनयोरुत्तरपदयोः को: का: स्यात् । काक्षः, कापथम् ।।४८|| पुरुषे वा ।३।२।१३५॥ .. पुरुषे उत्तरपदे को: का वा स्यात् । कापुरुषः, कुपुरुषः ।।४९|| . अल्पे ।३।२।१३६॥ ईषदर्थस्य कोरुत्तरपदे का: स्यात् । कामधुरम्, काच्छम् ।।५०।। का-कवौ वोष्णे ।३।२।१३७॥ उष्णे उत्तरपदे को: का-कवौ वा स्याताम् । कोष्णम्, कवोष्णम् । पक्षे यथाप्राप्तमिति तत्पुरुषे कदुष्णम् । बहुव्रीहौ कूष्णो देशः ।।५१।। कृत्येऽवश्यमो लुक् ।३।२।१३८॥ कृत्यान्ते उत्तरपदेऽवश्यमो लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ? अवश्यंलावकः ।।५२।। मांसस्याऽनड्-घजि पचि नवा ।३।२।१४१॥ . अनड्-घजन्ते पचावुत्तरपदे मांसस्य लुग् वा स्यात् । मांस्पचनम्, मांसपचनम् ; मांस्पाक:, मांसपाकः ।।५३।। सहस्य सोऽन्यार्थे ।३।२।१४३॥ __ उत्तरपदे परे बहुव्रीहौ सहस्य सो वा स्यात् । सपुत्रः, सहपुत्र: । अन्यार्थ इति किम् ? सहजः ।।५४|| अकालेऽव्ययीभावे ।३।२।१४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy