SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ४८ स्वोपज्ञरहस्यवृत्तिविभूषितं तृन्नादीनां कृतां कर्मकोंः षष्ठी न स्यात् । तृन्- वदिता जनापवादान् । उदन्त- कन्यामलङ्करिष्णु:, श्रद्धालुस्तत्त्वम् । अव्यय- कटं कृत्वा, ओदनं भोक्तुं व्रजति । कंसु- ओदनं पेचिवान् । आन- कटं चक्राण:, मलयं पवमानः, ओदनं पचमानः, चैत्रेण पच्यमानः । अन्तृश्]ि - अधीयस्तत्त्वार्थम् । शन्तृ- कटं कुर्वन् । ङि- परीषहान् सासहिः । णकच्- कटं कारको व्रजति । खलर्थ- ईषत्कर: कटो भवता, सुज्ञानं तत्त्वं त्वया ॥५२।। क्तयोरसदाधारे ।२।२।९१॥ सतो वर्तमानादाधाराच्चान्यत्रार्थे यौ क्त-क्तवन्तू तयोः कर्म-कत्रों: षष्ठी न स्यात् । कट: कृतो मैत्रेण, ग्रामं गतवान् । असदाधार इति किम् ? राज्ञां पूजितः, इदं सक्तूनां पीतम् ॥५३॥ वा क्लीबे ।२।२।९२॥ क्लीबे विहितस्य क्तस्य कर्तरि षष्ठी वा न स्यात् । मयूरस्य मयूरेण वा नृत्तम् ||५४|| अकमेरुकस्य ।२।२।९३॥ कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् । स्वमभिलाषुकः। अकमेरिति किम् ? दास्या: कामुकः ॥५५|| ____ एष्यहणेनः ।२।२।९४॥ एष्यत्यर्थे ऋणे च विहितस्येनः कर्मणि षष्ठी न स्यात् । ग्रामं गमी आगामी वा, शतं दायी । एष्यदृणेति किम् ? साधु दायी वित्तस्य ।।५६।। सप्तम्यधिकरणे ।२।२।९५॥ अधिकरणे एक-द्वि-बहौ यथासङ्खयं ङ्योस्-सुबूपा सप्तमी स्यात् । कटे आस्ते । दिवि देवा: । तिलेषु तैलम् ।।५७॥ नवा सुजथैः काले ।२।२।९६॥ सुचोऽर्थो वारो येषां तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्तमानात् सप्तमी वा स्यात् । द्विरह्नि अह्रो वा भुङ्क्ते, पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । काल इति किम् ? द्वि: कांस्यपात्र्यां भुङ्क्ते ।।५८|| स्वामीश्वराधिपति-दायाद-साक्षि-प्रतिभू-प्रसूतैः ।२।२।९८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy