SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रथमं परिशिष्टम् विगतानुवादनीतौ सुरकोपादिषु चतुर्दश गुणाः स्युः । न च मार्गणान्तर इति प्रोक्तं वेदेऽन्यथा नीतिः ॥५१॥ पुंसि स्त्रियां स्त्रियां पुंस्यन्तश्च तथा भवेद् विवाहादिः । यतिषु न संवासादिः स्यादगतौ निष्प्रमाणेष्टिः ॥५२॥ पञ्चेन्द्रियाद्युदयवत् सुरनरगत्यादिकर्मणामुदयः । वेदस्य तत्तदङ्गे नपुंसकादिवदु नरकादौ ॥५३॥ नाम तदिन्द्रियलब्धेरिन्द्रियनिर्वृत्तिमिव पुमाद्यङ्गम् । वेदोदयाद् विरचयेदित्यतदङ्गे न तद्वेदः ॥५४॥ या पुंसि च प्रवृत्तिः पुंसः स्त्रीवत् स्त्रियाः स्त्रियां च स्यात् । सा स्वकवेदात् तिर्यग्वदलाभे मत्तकामिन्याः ॥५५॥ मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत् स्त्रीणां सिद्धौ नापर्याप्तादिवद् बाधा ॥५६॥ न च बाधकं विमुक्तेः स्त्रीणामनुशासनं प्रवचनं च । सम्भवति च मुख्यऽर्थे न गौण इत्यायिकासिद्धिः ॥ ५७ ॥ ॥ इति स्त्रीनिर्वाणप्रकरणम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001144
Book TitleStree Nirvan Kevalibhukti Prakarane Tika
Original Sutra AuthorShaktayanacharya
AuthorJambuvijay
PublisherAtmanand Jain Sabha
Publication Year1974
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy