SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १२४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे छत्रत्रयमित्यर्थ इति सप्तमः ७, आकाशके प्रकाशे श्वेतवरचामरे प्रकीर्णके इत्यष्टमः ८, आगासफालियामयं ति आकाशमिव यदत्यन्तमच्छं स्फटिकं तन्मयं सिंहासनं सह पादपीठेन सपादपीठमिति नवमः ९, आयासगओ त्ति आकाशगतोऽत्यर्थं तुङ्ग इत्यर्थः, कुडभि त्ति लघुपताकाः संभाव्यन्ते, तत्सहस्रैः 5 परिमण्डितश्चासावभिरामश्च अभिरमणीय इति विग्रहः, इंदज्झओ त्ति शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा, पुरओ त्ति जिनस्याग्रतो गच्छतीति दशमः १०, चिटुंति वा निसीयंति व त्ति तिष्ठन्ति गतिनिवृत्त्या निषीदन्ति उपविशन्ति, तक्खणादेव त्ति तत्क्षणमेव अकालहीनमित्यर्थः, पत्रैः संछन्नः पत्रसंछन्न इति वक्तव्ये प्राकृतत्वात् संछन्नपत्र इत्युक्तं 10 स चासौ पुष्पपल्लवसमाकुलश्चेति विग्रहः, पल्लवा: अङ्कुराः, सच्छत्रः सध्वजः सघण्टः सपताकोऽशोकवरपादप इत्येकादशः ११, ईसि त्ति ईषद् अल्पं पिट्ठओ त्ति पृष्ठतः पश्चाद्भागे मउडट्ठाणम्मि त्ति मस्तकप्रदेशे तेजोमण्डलं प्रभापटलमिति द्वादशः १२, बहुसमरमणीयो भूमिभाग इति त्रयोदशः १३, अहोसिर त्ति अधोमुखाः कण्टका भवन्तीति चतुर्दशः १४, ऋतवोऽविपरीताः, कथमित्याह- सुखस्पर्शा 15 भवन्तीति पञ्चदशः १५, योजनं यावत् क्षेत्रशुद्धिः संवर्तकवातेनेति षोडशः १६, जुत्तफुसिएणं ति उचितबिन्दुपातेन निहयरय-रेणुयं ति वातोत्खातमाकाशवर्ति रजो भूवर्ती तु रेणुरिति गन्धोदकवर्षाभिधानः सप्तदशः १७, जलस्थलजं यद् भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना उर्ध्वमुखेन दशार्द्धवर्णेन पञ्चवर्णेन, जानुनोरुत्सेधस्य उच्चत्वस्य यत् प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचारः 20 पुष्पप्रकर इत्यष्टादशः १८, तथा कालागरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुदु याभिरामे भवइ त्ति कालागरुश्च गन्धद्रव्यविशेषः प्रवरकुन्दुरुक्कं च चीडाभिधानं गन्धद्रव्यं तुरुक्कं च शिल्हकाभिधानं गन्धद्रव्यमिति द्वन्द्वस्तत एतल्लक्षणो यो धूपस्तस्य मघमघायमानो बहलसौरभ्यो यो गन्ध उद्धत उद्भुतस्तेनाभिरामम अभिरमणीयं १. आयासओ त्ति जे१ हे१,२ । असओ त्ति जे२ ॥ २. कालागुरु जे१ हे१,२ ॥ ३. कालागुरु' __ जे१ हे१,२ ॥ ४. तुरुष्कं जे२ ॥ ५. हे१ विना- उद्वृत्त खं० जे१ । उधृत हेर ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy