SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूपितं नोादिभ्यः ।२।१।९९॥ अादिभ्यो मतोर्मो व् न स्यात् । ऊर्मिमान् , दल्मिमान् इत्यादि ।।९९।। मास-निशा-ऽऽसनस्य शसादौ लुग्वा ।२।१।१००॥ शसादौ स्यादावेषां लुग्वा स्यात् । मास: , मासान् । निशः , निशा: । आसनि , आसने ॥१००॥ दन्त-पाद-नासिका-हृदया-ऽसृग्-यूषोदक-दोर्यकृच्छकृतो दत्-पन्नस् हृदसन्-यूषन्नुदन्-दोषन्-यकन्-शकन् वा ।२।१११०१॥ शसादौ स्यादौ दन्तादीनां यथासंख्यं 'दत्' इत्यादयो वा स्युः । दतः , दन्तान् । पद: , पादान् । नसा , नासिकया । हदि , हृदये । अस्ना , असृजा | यूष्णा , यूषेण । उद्ना , उदकेन । दोष्णा , दोषा । यक्का , यकृता । शक्ना , शकृता ।।१०१।। य-स्वरे पादः पदणि-क्य-घुटि ।२।११०२।। णि-क्य-घुट्वर्जे यादौ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् । वैयाघ्रपद्य: , द्विपदः पश्य । पादयते: क्विपि पाद् , पदी कुले । य-स्वर इति किम् ? द्विपाद्भ्याम् । अणिक्यघुटीति किम् ? पादयति । व्याघ्रपाद्यति , द्विपादौ ।।१०२।। उदच उदीच् ।२।१।१०३॥ ___ अणिक्यघुटि यस्वरे उदच उदीच् स्यात्। उदीच्य: , उदीची। अणिक्यघुटीत्येवउदयति , उदच्यति , उदञ्चः । उदच इति किम् ? नि मा भूत् , उदञ्चा , उदञ्चे ।।१०३|| अच् प्राग दीर्घश्च ।२।१११०४॥ अणिक्यघुटि यस्वरादौ प्रत्ययेऽच् च् स्यात् , प्राक् स्वरश्च दीर्घः । प्राच्यः , दधीचा । अणिक्यघुटीत्येव-दध्ययति , दध्यच्यति , दध्यञ्चः । अचिति किम् ? नि मा भूतु-साध्वञ्चा ।।१०४।। कसुष् मतौ च ।२।१।१०५॥ अणिक्यघुटि य-स्वरे मतौ च प्रत्यये कस् उष् स्यात् । विदुष्यः , विदुषा , विदुष्मान् । अणिक्यघुटीत्येव-विद्वयति , विद्वस्यति , विद्वांसः ॥१०५।। १. वो J3 ।। २. अच्च खं२ बृहद्वृत्तौ च ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy