SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सादौ ध्वादौ च प्रत्यये । पर्णघुट् , तुण्डिभमाचक्षाण: तुण्ढिप् । एवं गर्द्धप् , धर्मभुत् , निघोक्ष्यते , न्यघूढ्वम् , धोक्ष्यते , अधुग्ध्वम् , भोत्स्यते , अभुद्ध्वम् । गडदवादेरिति किम् ? अजअप् । एकस्वरस्येति किम् ? दामलिट् ।।७७|| धागस्त-थोश्च ।२।१७८॥ धागश्चतुर्थान्तस्य दादेरादेर्दस्य तथो: स्ध्वोश्च प्रत्यययोः परयोश्चतुर्थः स्यात् । धत्त: , धत्थ: , धत्से , धद्ध्वे । तथोश्चेति किम् ? दध्व: । चतुर्थान्तस्येत्येव-दधाति ॥७८॥ अधश्चतुर्थात् तथोधः ।२।११७९॥ चतुर्थात् परयोर्धारूपवर्जाद्धातोर्विहितयोस्तथोर्ध: स्यात् । अदुग्ध , अदुग्धा: । अलब्ध , अलब्धाः । अध इति किम् ? धत्तः , धत्थः । विहितविशेषणं किम् ? ज्ञानभुत्त्वम् ।।७९।। __म्यिन्तात् परोक्षाद्यतन्याशिषो धो ढः ।२।११८०॥ रान्तानाम्यन्ताच्च धातो: परासां परोक्षाद्यतन्याशिषां धो ढ: स्यात् । अतीम् , तीर्षीढ्वम् ; दुष्टुढ्वे , अदिट्वम् , चेषीढ्वम् । र्नाम्यन्तादिति किम् ? अपग्ध्वम् , आसिध्वम् ।।८०।। हान्तस्थाञीड्भ्यां वा ।२।१।८१॥ हादन्तस्थायाश्च पराभेरिटश्च परासां परोक्षाद्यतन्याशिषां धो द वा स्यात् । अग्राहिढ्वम् , अग्राहिध्वम् ; ग्राहिषीढ्वम् , ग्राहिषीध्वम् । अनायिढ्वम् , अनायिध्वम् । नायिषीढ्वम् , नायिषीध्वम् । अकारिवम् , अकारिध्वम् । अलाविढ्वम् , अलाविध्वम् । जगृहिढ्वे , जगृहिध्वे । आयित्वम् , आयिध्वम् । हान्तस्थादिति किम् ? घानिषीध्वम् , आसिषीध्वम् ।।८१|| हो धुट-पदान्ते ।२।११८२॥ धुटि प्रत्यये पदान्ते च हो ढ् स्यात् । लेढा , मधुलिट् , गुडलिण्मान् । धुट्-पदान्त इति किम् ? मधुलिहौ ।।८२।। भ्वादेर्दादेर्घः ।२।११८३॥ भ्वादेर्धातोर्यो दादिरवयवस्तस्य हो धुटि प्रत्यये पदान्ते च घ् स्यात् । १. ढ: J3 ।। २. प्रत्यये परे पदान्ते J3 ।। ३. घः खं१,३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy