SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । विधानादिह विकल्पः । धर्मो वो रक्षतु धर्मो नो रक्षतु, धर्मो युष्मान् रक्षतु , धर्मोऽस्मान् रक्षतु । एवं चतुर्थी - षष्ठीभ्यामपि । पदादिति किम् ? युष्मान् पातु । युग्विभक्त्येति किम् ? तीर्थे यूयं यात । एकवाक्य इति किम् ? अतियुष्मान् पश्य । ओदनं पचत, युष्माकं भविष्यति ||२१|| द्वित्वे वाम्-नौ | २|१|२२|| पदात् परयोर्युष्मदस्मदोर्द्वित्वविषयया युग्विभक्त्या सह यथासंख्यं वाम्-नौ इत्येतौ वा स्याताम्, एकवाक्ये । धम्र्मो वां पातु, धर्मो युवां पातु ; धम्र्म्मो नौ पातु धर्म्म आवां पातु । एवं चतुर्थी - षष्ठीभ्यामपि ||२२|| डे - सा ते मे | २|१|२३॥ ܕ 9 ङे-ङस्भ्यां सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं ते मे इत्येतौ वा स्याताम् एकवाक्ये । धर्मस्ते दीयते धर्मस्तुभ्यं दीयते ; धर्मो मे दीयते धर्मो धर्मस्तव स्वम् ; धर्मो मे स्वम्, धर्मो मम , मह्यं दीयते ; धर्मस्ते स्वम् स्वम् ||२३|| ३९ " अमा त्वा मा |२|१|२४|| अमा सह पदात् परयोर्युष्मदस्मदोर्यथासंख्यं त्वा-मा इत्येतौ वा स्याताम् एकवाक्ये । धर्मस्त्वा पातु, धर्मस्त्वां पातु ; धर्म्मा मा पातु, धर्मो मां पातु ||२४|| Jain Education International असदिवाऽऽमन्त्र्यं पूर्वम् | २|१|२५|| आमन्त्र्यार्थं पदं युष्मदस्मद्भ्यां पूर्वमसदिव स्यात् । जना ! युष्मान् पातु धर्मः । साधू ! युवां पातु धर्मः । साधो ! त्वां पातु तपः । पूर्वमिति किम् ? मयैतत् सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः ||२५|| जस्विशेष्यं वाssमन्त्र्ये | २|१|२६ ॥ युष्मदस्मद्भयां पूर्वं जसन्तमामन्त्र्यार्थं विशेष्यवाच्याssमन्त्र्ये पदेऽर्थात् तद्विशेषणे परेऽसदिव वा स्यात् । जिना: शरण्याः ! युष्मान् शरणं प्रपद्ये । जिना: शरण्याः ! वः शरणं प्रपद्ये । जिना: शरण्याः ! अस्मान् रक्षत | जिना: १. इतः परम् ‘एवमुत्तरसूत्रत्रये' इत्यधिक: J3 मध्ये पाठः । “विकल्पो लभ्यते । एवमुत्तरसूत्रत्रयेऽपि” इति बृहद्वृत्तौ ॥ 1 For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy