SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे इत्यादि । नवभ्य इति किम् ? त्ये ॥१६॥ 7 आपो ङितां यै - यास् - यास्-याम् ।१।४।१७॥ आबन्तस्य ङिताम् ङे- ङसि - ङस् - ङीनां यथासंख्यम् यै-यास्-यास्-यामः स्युः । खट्वायै, खट्वायाः, खट्वायाः, खट्वायाम् ||१७|| सर्वादेर्डस्पूर्वाः | १|४|१८| " सर्वादेराबन्तस्य ङिताम् यै-यास् - यास् - यामस्ते डस्पूर्वाः स्युः । सर्वस्यै सर्वस्याः, सर्वस्याः, सर्वस्याम् ॥ १८ ॥ टौस्येत् | १|४|१९|| आबन्तस्य टौसोः परयोरेकारः स्यात् । बहुराजया, बहुराजयोः ||१९|| औता ।१।४।२०॥ आबन्तस्य औता सहैकारः स्यात् । माले स्तः पश्य वा ||२०|| इदुतोऽस्त्रेरीदूत् ।१।४।२१॥ २५ स्त्रेरन्यस्येदन्तस्योदन्तस्य च औता सह यथासंख्यम् ईदूतौ स्वाताम् । मुनी साधू | अस्त्रेरिति किम् ? अतिस्त्रियौ नरौ ||२१|| जस्येदोत् | १|४|२२|| इदुदन्तयोर्जसि परे यथासंख्यम् एदोतौ स्याताम् । मुनयः साधवः ||२२|| ङित्यदिति । १।४।२३॥ Jain Education International " 7 अदिति ङिति स्यादौ परे, इदुदन्तयोर्यथासंख्यम् एदोतौ स्याताम् । अतिस्त्रये साधवे । अतिस्त्रेः साधोरागतं स्वं वा । अदितीति किम् ? बुद्ध्याः, धेन्वाः | स्यादावित्येव - शुची स्त्री ||२३|| टः पुंसि ना | १|४|२४| पुंवृत्तेरिदुदन्तात् परस्याष्टाया ना स्यात् । अतित्रिणा अमुना । पुंसीति किम् ? बुद्धया ||२४|| , For Private & Personal Use Only १. पा१ J3 विना - इदुदन्तात् परस्याः पुंवृत्तेष्टाया पार । इदुदन्तात् परस्याः पुंविषयाटाया (यायाष्टाया खंसं१) खं१ । इदुदन्तात् परस्याः पुंविषये टाया खं३ । इदुदन्तात् परस्याः पुंविप [ ये संर] टाया खंर | www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy