SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं म-न-य-व-लपरे हे ।।३।१५।। म-न-य-व-लपरे हे परे पदान्तस्थस्य मस्य अनुस्वारा-ऽनुनासिकौ स्वौ क्रमेण स्याताम् । किं मलयति , किम्मलयति । किं हनुते , किन्नुते । किं ह्य: , कियँह्यः । किं ह्वलयति , किवह्वलयति । किं ह्लादते , किलह्लादते ।।१५।। सम्राट् ।१॥३॥१६॥ समो मस्य राजौ किबन्ते अनुस्वाराभाव: स्यात् । सम्राट् , सम्राजौ ॥१६॥ ङ्-णोः क-टावन्तौ शिटि नवा ।।३॥१७॥ पदान्तस्थयोर्ड-णयो: शिटि परे यथासंख्यं क-टावन्तौ वा स्याताम् । प्राङ् छेते , प्राङ्क् शेते , प्राङ् शेते । सुगण्ट् छेते , सुगण्ट शेते , सुगण शेते ||१७|| __ इनः सः त्सोऽश्वः ।।३।१८॥ पदान्तस्थाभ्यां ड-नाभ्यां परस्य सस्य त्स इति तादिः सो वा स्यात् , अश्वः , श्वावयवश्चेत् सो न स्यात् । षड् त्सीदन्ति , षट् सीदन्ति । भवान् त्साधु: , भवान् साधु: । अश्व इति किम् ? षट् श्च्योतन्ति , भवाञ् श्च्योतति ॥१८॥ नः शि ञ्च् ।१॥३॥१९॥ पदान्तस्थस्य नस्य शे परे ञ्च् वा स्यात् , अश्वः । भवाञ्च् छूरः , भवाञ्च शूरः , भवाञ् शूरः । अश्च इत्येव-भवाञ् श्च्योतति ।।१९।। __ अतोऽति रोरुः ।१।३॥२०॥ आत् परस्य पदान्तस्थस्य रोरति परे उर्नित्यं स्यात् । कोऽर्थः ॥२०॥ घोषवति ।१।३।२२॥ आत् परस्य पदान्तस्थस्य रो?षवति परे उ: स्यात् । धर्मो जेता ।।२१।। अवर्ण-भो-भगो-ऽघोलुंगसन्धिः ।।३।२२॥ अवर्णाद् भो-भगो-अघोभ्यश्च परस्य पदान्तस्थस्य रो?षवति परे लुक् स्यात् , स च न सन्धेर्हेतुः । देवा यान्ति , भो यासि , भगो हस , अघो वद ॥२२॥ १. क्रमात् पा१ पामू२ पा३ J3 || २. क्विबन्ते परे अनुपा१ खं३ ।। ३. प्राङ् छेते पार खं२ विना नास्ति ॥ ४. सुगण्ट् छेते पार खंर विना नास्ति ।। ५. भवाञ्च् शूरः नास्ति खं३ पा१,३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy