SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं [तृतीयः पादः] तृतीयस्य पञ्चमे ।।३॥१॥ वेति पदान्त इति अनुनासिक इति च अनुवर्तते । वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परे अनुनासिको वा स्यात् । वाङ् ङवते , वाग् डवते । ककुम्मण्डलम् , ककुमण्डलम् ।।१|| प्रत्यये च ॥१३॥२॥ पदान्तस्थस्य तृतीयस्य प्रत्ययपञ्चमे परे अनुनासिको नित्यं स्यात् । वाङ्मयम् , षण्णाम् । च उत्तरत्र वाऽनुवृत्त्यर्थः ।।२।। ततो हश्चतुर्थः ॥१॥३॥३॥ पदान्तस्थात् ततः तृतीयात् परस्य हस्य पूर्वसवर्गश्चतुर्थो वा स्यात् । वाग्धीन: , वाग्हीनः । ककुब्भास: , ककुब्हास: ।।३।। प्रथमादधुटि शश्छः ।१।३॥४॥ पदान्तस्थात् प्रथमात् परस्य शस्याधुटि परे छो वा स्यात् । वाक्छूरः , वाक्शूरः । त्रिष्टुप्छ्रुतम् , त्रिष्टुपश्रुतम् । अधुटीति किम् ? वाक् श्च्योतति ।।४।। रः कख-पफयोः क-७पौ।१।३।५॥ पदान्तस्थस्य रेफस्य कखे पफे च परे यथासंख्यं ४क-७पौ वा स्याताम् । क करोति , क: करोति । क खनति , कः खनति । कपचति , कः पचति । कफलति , क: फलति ।।५।। श-ष-से श-ष-सं वा ।।३।६॥ पदान्तस्थस्य रस्य श-ष-सेषु परेषु यथासंख्यं श-ष-सा वा स्युः । कश्ोते । क: शेते । कष्षण्डः , कः षण्डः । कस्साधुः , कः साधुः ।।६।। च-ट-ते सद्वितीये ।१॥३॥७॥ पदान्तस्थस्य रस्य च-ट-तेषु सद्वितीयेषु परेषु यथासंख्यम् श-ष-सा नित्यं स्युः । कश्चरः , कश्छन्नः , कष्टः , कष्ठ: , कस्त: , कस्थः ॥७॥ नोऽप्रशानोऽनुस्वारा-ऽनुनासिकौ च पूर्वस्याऽधुटपरे ।।३।८॥ १. अनु पा१ J3 विना नास्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy