SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं स्यौ-जसमौ-शस्-टा-भ्याम्-भिस्-डे-भ्याम्-भ्यस्-ङसि-भ्याम्भ्यस्-ङसोसाम्-ङ्योस्-सुपां त्रयी त्रयी प्रथमादिः ।१०।१८॥ ___ स्यादीनां प्रत्ययानां त्रयी त्रयी यथासंख्यं प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी च स्यात् ।।१८।। स्त्यादिर्विभक्तिः ।।१।१९॥ 'स्' इति च 'ति' इति च उत्सृष्टानुबन्धस्य सेस्तिवश्व ग्रहणम् । स्यादयस्तिवादयश्च सुप्-स्यामहिपर्यन्ता विभक्तय: स्युः ।।१९।। तदन्तं पदम् ।१।०२०॥ स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वम् , ददाति न: शास्त्रम् ||२०॥ नाम सिदयव्यञ्जने ।शश२१॥ सिति प्रत्यये यवर्जव्यञ्जनादौ च परे नाम पदं स्यात् । भवदीयः , पयोभ्याम् । अय् इति किम् ? वाच्यति ।।२१।। नं क्ये ।।१२२॥ क्ये इति क्यन्-क्यङ्-क्यक्षां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात् । राजीयति , राजायते , चायति ।।२२।। न स्तं मत्वर्थे ।।१२३॥ सान्तं तान्तं च नाम मत्वर्थे परे पदं न स्यात् । यशस्वी , तडित्वान् ।।२३।। मनुर्नभोऽङ्गिरो वति ।१।१।२४॥ एतानि वति परे पदं न स्युः । मनुष्वत् , नभस्वत् , अङ्गिरस्वत् ।।२४|| वृत्त्यन्तोऽसषे ।।१।२५॥ परार्थाभिधायी समासादिर्वृत्तिः , तस्या अन्तः अवसानं पदं न स्यात् असषे , सस्य तु षत्वे पदमेव । परमदिवौ , बहुदण्डिनौ । असष इति किम् ? दधिसेक् ।।२५।। १. चर्मायते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy