SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४४६ स्वोपज्ञलघुवृत्तिविभूषितं तयोवौं स्वरे संहितायाम् ।।४।१०३॥ तयोः प्लुताऽऽकारात् परयोरिदुतोः स्वरे परे संहिताविषये यथासंख्यं य्वौ स्याताम् । अगम:३ अग्निभूता३यत्रागच्छ , अगम:३ पटा३वत्रागच्छ । संहिताया मिति किम् ? अग्ना३इ इन्द्रम् । पटा३उ उदकम् ॥१०३|| पञ्चम्या निर्दिष्टे परस्य ।७४।१०४॥ पञ्चम्या निर्दिष्टे यत् कार्यमुक्तं तत् परस्याऽव्यवधेः स्यात् । अतो भिस ऐस् [१।४।२] वृक्षैः , इह मा भूत्-मालाभिरत्र , दृषद्भिः ॥१०४।। सप्तम्या पूर्वस्य ।।४।१०५॥ सप्तम्या निर्दिष्टे यत् कार्यमुक्तं तत् पूर्वस्याऽव्यवधेः स्यात् । दध्यत्र , इह मा भूत्- समिदन ।।१०५॥ षष्ठयाऽन्त्यस्य ।७४।१०६॥ षष्ठया निर्दिष्टे यदुक्तं तत् षष्ठयुक्तस्य योऽन्त्यस्तस्य स्यात् । अष्टाभिः ।।१०६।। अनेकवर्णः सर्वस्य ।।४।१०७॥ अयं विधिः षष्ठयोक्तस्य सर्वस्यैव स्यात् । तिसृभिः ॥१०७॥ प्रत्ययस्य ७७४।१०८॥ प्रत्ययस्थानिनो विधि: सर्वस्य स्यात् । सर्वे ।।१०८।। स्थानीवाऽवर्णविधौ ।४।१०९॥ आदेश आदेशीव स्यात् , न चेत् स्थानिवर्णाश्रयं कार्यम् । भव्यम् , कस्मै , राजा , प्रकृत्य । अवर्णविधाविति किम् ? द्यौः , क इष्टः , प्रदीव्य ॥१०९।। स्वरस्य परे प्राविधौ ।७४।११०॥ स्वरस्यादेश: परनिमित्तकः पूर्वस्य विधौ विधेये स्थानीव स्यात् । कथयति , पादिकः , संस्यते । पर इति किम् ? द्विपदिकां दत्ते । प्राविधाविति किम् ? नैधेयः ॥११०॥ न सन्धि-ङी-य-क्वि-द्वि-दीर्घा-ऽसद्विधावस्क्लुकि ।४।१११॥ सन्धिविधौ ङीविधौ यविधौ विविधौ द्वित्वविधौ दीर्घविधौ संयोगस्यादौ स्कोर्लुक् [२।११८८] इति स्क्लुग्वर्जे चाऽसद्विधौ स्वरस्याऽऽदेश: स्थानीव न स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy