SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् , त्वचिष्ठः , त्वचीयान् ।।३२।। अल्प-यूनोः कन् वा ।७४॥३३॥ अनयोतीष्ठेयसुषु कन् वा स्यात् । कनयति , कनिष्ठः , कनीयान् ; अल्पयति अल्पिष्ठः , अल्पीयान् ; यवयति , यविष्ठः , यवीयान् ॥३३।। प्रशस्यस्य श्रः ७४॥३४॥ अस्य ण्यादौ श्र: स्यात् । श्रयति , श्रेष्ठः , श्रेयान् ।।३४।। वृद्धस्य च ज्यः ॥४॥३५॥ अस्य प्रशस्यस्य च ण्यादौ ज्य: स्यात् । ज्ययति , ज्येष्ठः ।।३५।। ज्यायान् ।७१४॥३६॥ ज्यादेशात् परस्येयसोरीत् आ निपात्यः । ज्यायान् ।।३६।। बाढा-ऽन्तिकयोः साध-नेदौ ।।४।३७॥ अनयोादौ यथासंख्यमेतौ स्याताम् । साधयति , साधिष्ठः , साधीयान् ; नेदयति , नेदिष्ठः , नेदीयान् ।।३७|| प्रिय-स्थिर-स्फिरोरु-गुरु-बहुल-तृप्र-दीर्घ-वृद्ध-वृन्दारकस्येमनि च प्रा-स्था-स्फा-वर-गर-बंह-त्रप-द्राघ-वर्ष-वृन्दम् ।१४।३८॥ प्रियादीनां यथासंभवमिमनि ण्यादौ च यथासंख्यमेते स्युः । प्रेमा , प्रापयति , प्रेष्ठः , प्रेयान् ; स्थेमा , स्थापयति , स्थेष्ठः , स्थेयान् ; स्फापयति , वरिमा , गरिमा , बंहिमा , पिमा , द्राघिमा , बर्षिमा , वृन्दिमा ।।३८।। __ पृथु-मूदु-भृश-कृश-दृढ-परिवृढस्य ऋतो रः ।७।४।३९॥ एषामृत इम्नि ण्यादौ च र: स्यात् । प्रथिमा , प्रथयति , प्रथिष्ठः , प्रथीयान् ; एवं मद्रिमा , भ्रशिमा , क्रशिमा , द्रढिमा , परिवढिमा ।।३९।। बहोर्णीष्ठे भूय ।।४।४०॥ भूययति , भूयिष्ठः ॥४०॥ ___ भूर्लक् चेवर्णस्य ॥४॥४१॥ बहोरीयसाविम्नि च भू: स्यात् , लुक् चाऽनयोरिवर्णस्य । भूयान् , भूमा ॥४१|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy