SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४२५ उरसोऽग्रे।७।३।११४॥ अग्रं मुखं प्रधानं वा , तदर्थो य उरास्तदन्तात् तत्पुरुषादट् स्यात् । अश्वोरसं सेनायाः , अश्वोरसं कविकम् ।।११४।। सरो-ऽनो-ऽश्मा-ऽयसो जाति-नाम्नोः ।।३।११५॥ एतदन्तात् तत्पुरुषादट् स्यात् , यथासम्भवं जातावर्थे संज्ञाविषये च । जालसरसम् , उपानसम् , स्थूलाश्म: , कालायसम् । जाति-नाम्नोरिति किम् ? परमसरः ।।११५|| अह्नः ।७३।११६॥ अहन्नन्तात् तत्पुरुषादट् स्यात् । परमाहः ।।११६।। संख्यातादह्नश्च वा ।७।३।११७॥ सङ्ख्यातात् परो योऽहा तदन्तात् तत्पुरुषादट् स्यात् , अह्नश्च वाऽह् । सङ्ख्याताह्नः , सङ्ख्याताहः ॥११७|| सर्वां-ऽश-संख्या-ऽव्ययात् ।७।३।११८॥ सर्वादंशार्थात् संख्यार्थादव्ययाच परो योऽहा तदन्तात् तत्पुरुषादट् स्यात् , अह्रश्वाह् । सर्वाह्नः , पूर्वाह्नः , व्यह्नः पट: , अत्यही कथा ॥११८|| संख्यातैक-पुण्य-वर्षा-दीर्घाच्च रात्ररत् ।७३।११९॥ एभ्य: सर्वांशादेश्च परो यो रात्रिस्तदन्तात् तत्पुरुषादत् स्यात् । सङ्ख्यातरात्र: , एकरात्र: , पुण्यरात्रः , वर्षारात्रः , दीर्घरात्र: , सर्वरात्र: , पूर्वरात्रः , द्विरात्र: , अतिरात्रः ॥११९॥ पुरुषायुष-द्विस्ताव-त्रिस्तावम् ।।३।१२०॥ एते तत्पुरुषा अदन्ता निपात्या: । पुरुषायुषम् , द्विस्तावा , त्रिस्तावा वेदिः ||१२०॥ श्वसो वसीयसः ।७।३।१२१॥ श्वस: परो यो वसीयांस्तदन्तात् तत्पुरुषादत् स्यात् । श्वोवसीयसम् ।।१२१।। निसश्च श्रेयसः ।७३।१२२॥ निस: श्वसश्च परो य: श्रेयांस्तदन्तात् तत्पुरुषादत् स्यात् । निःश्रेयसम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001123
Book TitleSiddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1994
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy